SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ९६ तत्त्वार्थाधिगमसूत्रम् [अध्यायः ७ सम्प्रति व्याख्यातस्वरूपाणि शीलानि निगमयति भा०-एतानि दिग्वतादीनि शीलानि भवन्ति । " निःशल्यो व्रती" (अ० ७, सू० १३) इति वचनादुक्तं भवति व्रती नियतं सम्यग्दृष्टिरिति ॥ तत्र टी-एतानीत्यादिनोत्तरसूत्रस्य च सम्बन्धमाचष्टे । दिक्षु व्रतं दिग्वतम् । तदादौ येषां तान्येतानि दिव्रतादीनि सप्तापि सह संल्लेखनया शीलानि भवन्ति । शील्यन्तेऽभ्यस्यन्ते वाऽत्मनि पुनः पुनरिति शीलानि । एवमयमगार्यणुव्रतसम्पन्नो व्रती उच्यते । स च व्रती निःशल्य इत्यमुष्माद् वचनादिदमपि सामर्थ्यतः प्रतिपादितं भवति-व्रती नियतं सम्यग्दृष्टिरिति । व्रतिलक्षणादेव विशिष्टार्थावधारणम् । यो व्रती सोऽवश्रांतया सम्यग्दर्शनी भवतीति । यतः शङ्कादिदोषदूषितमनसो मिथ्यादर्शनशल्यत्रुट्यमानसकलमूलोत्तरगुणाधारतस्वश्रद्धानस्य नियमत एव नास्ति व्रतित्वम् , अतो व्रतीति नियत सम्यग्दृष्टिरिति । तस्य च सम्यग्दृष्टेरतीचारः सम्यग्दर्शनव्यतिक्रमो मलीमसता स्खलनं विभ्रंशो वाऽभिधीयते, सम्यग्दर्शनमूलत्वाञ्च व्रतित्वस्य । प्राक् तावत् सम्यग्दर्शनातिचाराभिधानम् । शुद्ध हि तस्मिन् व्रतविशुद्धिरिति ॥ सम्यग्दर्शनस्य सूत्रम्-शङ्काकाङ्क्षाविचिकित्साऽन्यदृष्टिप्रशंसापश्चातीचाराः संस्तवाः सम्यग्दृष्टेरतीचाराः॥ ७-१८॥ टी०-तत्र-तेषु सम्यक्त्वाणुव्रतशिक्षाव्रतेषु सम्यग्दर्शनातिचारः पञ्चविधः। ते तु शङ्केस्यादि शङ्काकारक्षाविचिकित्साऽन्यदृष्टिप्रशंसासंस्तवाः सम्यग्दृष्टेरतीचाराः, कतद्वन्द्वाः शङ्कादयो भवनविभक्त्या निर्दिष्टाः, सम्यग्दृष्टेरिति सम्यग्दर्शनमाजोऽतीचारा भवन्ति, मोहनीयकर्मणो वैचित्र्यादात्मनः परिणतिविशेषाः । तानि द्वन्द्वपदानि पश्चापि त्या दर्शयति भा०-शङ्का काङ्क्षा विचिकित्सा अन्यदृष्टिप्रशंसा संस्तवः इत्येते पञ्च सम्यग्दृष्टेरतिचारा भवन्ति । अतिचारो व्यतिक्रमः स्खलितमित्यनान्तरम् । अधिगतंजीवाजीवादितत्त्वस्यापि भगवतः शासनं भावतोऽभिप्रपन्नस्यासंहार्यया स्वरूपामतेः सम्यग्दृष्टेरैहतोक्तेषु अत्यन्तसूक्ष्मेष्वतीन्द्रियेषु केवलाग मॅगम्येष्वर्थेषु यः सन्देहो भवत्येवं स्यादिति सा शङ्का ॥ 'सदनं' इति उ-पाठः। २'संस्तवाः' इति ख-पाठः। ३.रतीचाराः'तिख-घ-पाठः। ४'स्खलन ' इति घ-पाठः। ५'जीवाधिगतत्वस्यापि ' इति क-ख-ग-पाठश्चिन्तनीयः। ६ ‘महत्प्रोकेषु' इति घ-पाठ। 'ममा वर्षेषु' इति घ-पाठः। ८' भवत्येवं स्यादेवं न स्यादिति' इति घ-पाठः। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004023
Book TitleTattvarthadhigam Sutram Part 02
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages396
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy