________________
सूत्रं १८]
स्वोपज्ञभाष्य-टीकालङ्कृतम्
९७
टी० - शङ्केत्यादिकया । अतिचारो व्यतिक्रम उल्लङ्घन ( स्खलन ?) मित्ये कोऽर्थः । अधिगतेत्यादि । अधिगतं सुपरिज्ञातं जीवाजीवादितत्त्वं यस्य तस्याप्येवंविधस्य । भगवत इति धर्मलक्ष्मीयशोभाजः श्रीवर्धमानस्य शासनं प्रवचनं अभिप्रपन्नस्य-अभिमुखं भावतः, प्रतिपन्नस्येतियावत् । असंहार्यमतेरिति । संहार्या - क्षेप्या परकीयागमप्रक्रियाभिरसमञ्जसाभिर्बुद्धिर्यस्यासौ संहार्यमतिः, न संहार्यमतिर संहार्य मतिर्भगवदत्प्रणीत तत्त्वश्रद्धा तया (१) तस्य सम्यग्दृष्टेर र्हृत्प्रोक्तेषु जीवादिष्वर्थेषु यथाऽऽत्मा लोकाकाशतुल्यप्रदेशः गतिस्थितिहेत् जीवपुद्गलानां धर्माधर्मावर्पेक्षाकारणमित्येवमादिरनेकः पदार्थोऽत्यन्तसूक्ष्मः, तेषु । अत्यन्तग्रहणालिङ्ग (लिङ्गागम ?) गम्येषु । यतः परमाणवः सूक्ष्माचातीन्द्रियाश्च तथापि लिङ्गेन-कार्येण आगमेन वाऽवगम्यन्ते, नैवं संख्येयप्रदेशादय इति, अत्यन्तसूक्ष्माः समुल्लङ्घितचक्षुरादिविषयभावाः, केवलागमग्राह्येष्विति, नाप्रमाणकास्तेऽत्यन्ताभाववदिति दर्शयति, केवलमेकं मत्यादिसहाय भाव विनिर्मुक्तमात्यन्तिकज्ञानावरणक्षयप्रभेद (भव) मात्मस्वरूपं सकलज्ञेयग्राहि यत् ज्ञानं तेन गृह्यन्ते, आगमो- द्वादशाङ्गं प्रवचनमर्हत्प्रोक्तार्थं गणधर प्रत्येक बुद्धस्थविरविरचितसूत्रप्रबन्धम् । यदाह
( " अर्हत्प्रोक्तं गणधरब्धं प्रत्येकबुद्धद्दब्धं वा । स्थविरग्रथितं च तथा प्रमाणभूतं त्रिधा सूत्रम् ॥" ) श्रुतकेवली च तस्मादधिगतदशपूर्वक तौ स्थविरौ । आप्ताज्ञाकारित्वात् तु सूत्रमितरत् स्थविरब्धम् ॥ गीतार्थः संविनश्वरणस्थो नोपदेशने शक्यः ( भाज्यः १ ) । भाज्यः स एव सद्भावदेशने मन्दवृत्तचेत् || "
अत आगमपरिच्छेद्येषु प्रज्ञापनीयेष्वर्थेषु यः संशयो भवति एवं स्यादसंख्येयप्रदेश आत्मा, अथ निष्प्रदेशो निरवयवत्वान्नैवं स्यादिति वा, सेयमेवंविधा शङ्का । तथा चागमः - " "संसयकरणं सङ्का " (आव०) मिथ्यादर्शनं च त्रिविधम्, अभिगृहीतानभिगृहीतसंशयभेदात्, तत्र संशयो मिथ्यात्वमेव यथाऽऽह ( सङ्ग्रहण्याम् ) -
64
"
'पॅयमक्खरं च एकंपि जो न रोरति सुत्तनिद्दिष्ठं । सेसं रोयतोवि हु मिच्छद्दिही मुणेयव्वो ॥ १ ॥ -" सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति नरः ।
मिथ्यादृष्टिः सूत्रं हि नः प्रमाणं जिनाज्ञा च ॥ १ ॥
तथा
44
१' यतः परमाणवः सूक्ष्माचातीन्द्रियाश्च' इति क ख ग प्रतीनामधिकः पाठः, परन्तु स पाठः प्रामादिक इति
་
प्रतिभाति । २ — भावादिति सूक्ष्ममात्यन्तिक ' इति ङ-पाठः । ३ ' पूर्वधरथ तौ ' इति स्व-पाठः । ४' मन्ददृश्वरवात् '
इति पाठः । ५' परिज्ञेयेषु ' इति ङ-पाठः । ६ संशयकरणं शङ्का ।
७ छाया - पदमक्षरं चैकमपि यो न रोचते सूत्रनिर्दिष्टम् ।
शेषं रोचमानोऽपि खल्ल मिध्यादृष्टिर्ज्ञातम्यः ॥
१३
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org