________________
तत्त्वार्थाधिगमसूत्रम्
[अभ्यायः ७ एकमिन्नप्यर्थे संदिग्धे प्रत्ययोऽर्हति हि नष्टः ।
मिथ्यैव दर्शनं तत् स चादिहेतुर्भवगतीनाम् ॥२॥" तसान्मुमुक्षुणा व्यपगतशङ्कन सता जिनवचनं सत्यमेव सामान्यतः प्रतिपत्तव्यम् । संशयास्पदमपि सत्यमेव, सर्वज्ञाभिहितत्वात् तदन्यपदार्थवत्, मतिदौर्बल्यादिदोषात् तु कात्स्न्र्येन सकलपदार्थस्वभावावधारणमशक्यं छद्मस्थेन । यथाऽऽह (भगवतीवृत्तौ)
न हि नामानाभोगश्छमस्थस्येह कस्यचिन्नास्ति ।
___ यस्माज्ज्ञानावरणं ज्ञानावरणप्रकृति कर्म ॥१॥" काङ्क्षास्वरूपमभिधातुकाम आह
- भा०-ऐहलौकिकपारलौकिकेषु विषयेष्वाशंसा काडक्षा। काक्षायाः स्वरूपम् मोडविचारः सम्यग्दृष्टः कुतः।काङ्किता त्यविचारितगुणदोषः समयमतिकामति ॥ ___टी०-ऐहलौकिकपारलौकिकेंष्वित्यादि । इहलोक भवा ऐहलौकिकाः शब्दादयो विषयाः । सुगतेन हि मिथूणामक्लेशको धर्म उपदिश स्नानानपानाच्छादनशयनीयादिसुखानुभवद्वारेण । सोऽपि हि घटमानक एव, न दूरापेतः । तथा परिव्राजकभौतब्राह्मणादीनामैहिकान् विषयानुपभुञ्जाना एव परलोकेऽपि सुखेन युज्यन्ते, साधीयान् धर्मोपदेशः । तथा परलोके भवाः पारलौकिका:-स्वर्गमानुषजन्मप्रभवाः शब्दादयो विषयाः प्रकर्षापकर्षवृत्तित्वाद् अन्यान्यदर्शने सति ग्राहोऽभिलाषस्तद्विषयः, आशंसा प्रीतिरभिलाषः काक्षेत्यनर्थान्तरम् दर्शनेषु वा । तथाचागमे ( आवश्यकसूत्रनाम्नि चतुर्थे विभागे )-"खा अण्णण्णदसणग्गाहो "। प्रस्तुतोऽतिचारस्तच्छब्देन तस्य परामर्शः । सोऽतिचारो मलीमसताध्यामलता । कस्य ? सम्यग्दृष्टेरित्याह । न निर्मूलमेव सम्यक्त्वं भवति, मलिनमात्रता तस्य जायते इति । कस्मात् पुनः काङ्क्षा अतिचार इति प्रश्नेनोपक्रमते कुत इति । एवं मन्यते प्रष्टा-जिनवचनं श्रद्धत्त एव, न न श्रद्धत्ते, अश्रद्दधतश्च मिथ्यादर्शनम् । आचार्यस्त्वाह-काक्षिता हीत्यादि । यस्मादन्यशासनतत्त्वाभिलाषी काइक्षिता, न विचारिता गुणदोषा येनासावविचारितगुणदोषः सांसारिकसुखमल्पकमभिलपत्यैहलौकिकं पारलौकिकं वा विनश्वरमवसानकटुकं दुःखानुविद्धमुद्धतकषायकलुषितत्वात् संसारानुबन्धि, सर्वे चैवंविधं भगवद्भिः प्रतिषिद्धं, प्रतिषिद्धानुष्ठानं च भावतो दूषयति सम्यक्त्वं, सिद्धान्तव्यवस्थोल्लङ्घनात् । तदाह-सम
१०लौकिकेषु विषये.' इति घ-पाठः, स्व-पाठस्तु लौकिकविषये' इति । २छाया___काक्षा भन्यान्यदर्शमाहः । ३'श्वयत' इति क-स-पाठः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org