________________
सूत्र १८] स्वोपज्ञभाष्य टीकालङ्कृतम्
९९ यमतिक्रामतीति । समयः-सिद्धान्तः, अनतिक्रमणीया वा कार्यव्यवस्था, कोशपानादिवत् , एवमनतिलङ्घनीया या वृत्तिः स समयः, सम्यग्ज्ञानं वा, गत्यर्थानां ज्ञानार्थत्वात्, तं समयमतिक्रामति, उल्लङ्घयतीत्यर्थः। कः पुनरसौ समयः ?-"णो इहलोयट्टयाए" इत्यादि (दशवैकालिके अ० ९, उ० ४) केवलं कर्मनिजेरणायैवेति। तस्मादैकान्तिकात्यन्तिकाव्याबाधसुखहेतुरयं सकलः प्रयास इति अन्यत्र निराकाङ्क्षण मुनिना भवितव्यमिति ॥ विचिकित्साविचारः भा०-विचिकित्सा नामेदमंप्यस्तीति मतिविप्लुतिः ॥
टी-विचिकित्सा नामेत्यादि । मतिविभ्रमो विचिकित्सा । युक्त्यागमोपपनेऽप्यर्थे भ्राम्यति मतिः, यथा-अस्य महतस्तपःक्लेशस्य सिकताकणकवलनिःस्वादस्य लोचमौण्ड्यादेरायत्यां फलसंपद् भवित्री, अथ च क्लेशमात्रमेवेदं निर्जराफलविक लमिति ? । नामशब्दो वाक्यालङ्कारार्थः । इदमप्यस्तीत्यादि । उभयथेह क्रियाः फलवत्यो निष्फलाश्च दृश्यन्ते । कृषीवलानां कर्षणादिक्रिया कदाचित् फलवती जातुचिनिष्फलेति, अत इदमप्यस्तीदमप्यस्तीत्युभयथा दृष्टत्वात् क्रिमासामान्यस्य मतेर्विभ्रमो भवति, न च शङ्कातो न भिधत इत्याशङ्कनीयम्, शङ्करं तु सकलासकलपदार्थभाक्त्वेन द्रव्यगुणविषया लक्ष्यके, इयं तु क्रियाविषयैव विचिकित्सा । तामेव विषणोति स्पष्टेनाभिधानेन-मतिविप्लुतिरिति । मतिमिथ्यात्वपुद्गलानुविद्धा प्लवते-भ्रमत्यनवतिष्ठमाना सर्वप्रवचन इति । सर्व एव चैते प्रायो मिथ्यादर्शनभेदाः केनचिद् विशेषेण सिद्ध(जाय?)मानाः सम्यक्त्वातिचारतां प्रतिपद्यन्त इति नातिसूक्ष्मेक्षिका कार्येति। आगमे तु विचिकित्सा विद्वज्जुगुप्सा वेत्यभिहितं तदिहापि सम्भवत्येव । विद्वांसः साधवो विदितसंसारस्वभावाः परित्यक्तसमस्तसङ्गाः तेषां जुगुप्सा-निन्दा, अस्नानात प्रस्वेदजलक्लिनमलत्वाच दुर्गन्धिवपुषस्तान् निन्दति-को दोषः स्याद् यदि प्रासुकवारिणाऽङ्गप्रक्षालनं कुर्वीरन् भगवन्त इति १ ॥
भा०–अन्यदृष्टिरित्यहच्छासनव्यतिरिक्तां दृष्टिमाह । सा शेषातिचारद्वयम् द्विधा-अभिगृहीता चानभिगृहीता च । तद्युक्तानां क्रियावा
दिनामक्रियावादिनामज्ञानिकानां वैनयिकानां च प्रशंसासस्तवौ सम्यग्दृष्टेरतिचार इति ॥
१ छाया
न इहलोकार्थम् । २०मप्यस्तीदमपीति मति०' इति घ-पाठः। ३'फलवद्' इति ग-पाठः। ४'न च शकते, इति क-न-पाठः। ५ 'कुर्वतामव्रत()' इति हु-पाठः। ६'ज्ञानिकानां प्रशंसासंस्तवाविति' इति क-ख-गपाठश्चिन्तनीयः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org