________________
सूत्र ७] स्वोपज्ञभाष्य-टीकालङ्कृतम्
३१५ मिकक्षायोपशमिक-क्षायिकानां भावानां स्वतत्त्वं विदित्वा आदिमत्पारिणा
मिकौदयिकानां च भावानामुत्पत्तिस्थित्यन्यतानुग्रहप्रलयतत्त्वज्ञो उपसहारः विरक्तो 'निस्तृष्णः त्रिगुप्तः पञ्चसमितो दशलक्षणधर्मानुष्ठानात् फलदर्शनाच निर्वाणप्राप्तियतनयाऽभिवर्धितश्रद्धासंवेगो भावनाभिर्भावितात्माऽनुप्रेक्षाभिः स्थिरीकृतात्मानभिष्वङ्गः संवृतत्वान्निरास्रवत्वाद् विरक्तत्वान्निस्तृष्णस्वाच व्यपगताभिनवकर्मोपचयः परीषहजयाद् बाह्याभ्यन्तरतपोऽनुष्ठानात् अनुभावतश्च सम्यग्दृष्टयविरतादीनां च जिनपर्यन्तानां परिणामाध्यवसाय. विशुद्धिस्थानान्तराणामसङ्ख्येयगुणोत्कर्षप्रास्या पूर्वोपचितकर्म निर्जरयन् सामायिकादीनां च सूक्ष्मसम्परायान्तानां संयमविशुद्धिस्थानानामुत्तरोत्तरोपलम्भात् पुलाकादीनां च निर्ग्रन्थानां संयमानुपालनविशुद्धिस्थानविशेषाणामुत्तरोत्तरप्रतिपत्त्या घटमानोऽत्यन्तपहीणातरौद्रध्यानो धर्मव्यानविजयादवाप्ससमा. धिबलः शुक्लध्यानयोश्च पृथक्त्वैकत्ववितर्कयोरन्यतरस्मिन् वर्तमानो नानाविधानृद्धिविशेषान् प्राप्नोति । तद्यथा-आमशौषधित्वं वि डौषधित्वं सौषधित्वं शापानुग्रहसामर्थ्यजननीमभिव्याहारसिद्धिमीशित्वं वशित्वं अवधिज्ञानं शारीरविकरणाङ्गप्राप्तितामणिमानं लघिमानं महिमानं अणुत्वम् । अणिमा बिसच्छिद्रमपि प्रविश्यासीत । लघुत्वं नाम लधिमा वायोरपि लघुतरः स्यात् । महत्त्वं महिमा मेरोरपि महत्तरं शरीरं विकुर्वीत । प्राप्तिभूमिष्ठोऽङ्गल्यग्रेण मेरुशिखरभास्करादीनपि स्पृशेत् । प्राकाम्यमप्सु भूमाविव गच्छेत्, भूमावप्स्विव निमजे. दुन्मज्जेच्च॥
टी-एवमित्यादिना मन्दबुद्धयनुग्रहार्थं सकलमेव तत्त्वार्थशास्त्रार्थ समासतः कथयति-विशुद्धं सम्यग्दर्शनमवाप्यतस्य विशेषणानि निसर्गाधिगमादीनि । ज्ञानं च विशुद्धमधिगम्य सम्यग्दर्शनोपलम्भात् मिथ्यादर्शनभावितमज्ञानमेव नियमतो मिथ्यादृष्टेः सम्यक्त्वलाभे तु विशुद्धं ज्ञानम् । निक्षेपो नामादिः । प्रमाणे प्रत्यक्ष-परोक्षे । नया नैगमादयः । तथा निर्देश-स्वामित्वादिभिः सत्-सङ्ख्या-क्षेत्रादिभिश्च जीवादीनां च पारिणामिकादयो ये भोवास्तेषां स्वरूपं विदित्वा धर्माधर्मादीनां अनादीनामादिमतां च पारिणामिकादीनां घनशरीरादीनामुत्पत्तिस्थितिविनाशवतामनुग्रहः-उपकारस्तत्कृतः प्रलयः-उपघात इत्येवमवगम्य तत्त्वज्ञो विरक्तः सांसारिकेभ्यो भावेभ्यो विगततृष्णो गुप्त्याद्यनुष्ठानात् फलदर्शनाचेति निर्वाणमेव फलं तत्प्राप्तौ यत्नार्थमभिवधिनश्रद्धासंवेगः पश्चानां व्रतानां भावना ईयांसमित्यादयस्ताभिर्भावितात्मा अनित्याद्यनुप्रेक्षाभिः स्थिरीकृतात्मा अनभिष्वङ्गो-न कचिदाबद्धस्नेहः संवृतत्वादिभिर्व्यपगताभिनव
१' निस्तृप्तः' इति ग-पाठः। २ ‘भाविनः' इति ङ-पाठः। ३ 'प्रादुर्भावादाबद्ध ' इति ङ-ज-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org