________________
३१६ तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः १० कर्मोपचयः। कर्मणां चानुभावतः सम्यग्दृष्टयादिगुणस्थानानां केवलिपर्यन्तानाम: सङ्ख्येयगुणोत्कर्षप्राप्त्या पूर्वोपचितकमेनिजेरणात् सामायिकाग्रुपलम्भात् पुलाकादिस्थानावाप्तेर्व्यपेतार्तध्यानरौद्रध्यानो धर्मध्यानविजेयाभ्यासादवाप्ताद्यशुक्लध्यानद्वयस्य नानाविधा लब्धय उत्पद्यन्ते । स्वहस्तपादावयवपरामर्शमात्रेणैव सर्वरोगापनयनसामर्थ्यमामौषः धित्वम् । तदीयमूत्रपुरीषावयवसम्पर्काच्छरीरनैरुज्यं विगुडौषधित्वम् । तथा सर्व एव तदीयावयवा दुःखातानामौषधीभवन्तीति सौंषधित्वम् । अभिव्याहारसिद्धिर्वामात्रेणैव । शापदानसामर्थ्य मनुग्रहण लामयं च । ईशित्वं सर्वभूतेश्वरत्वम् । वशित्वं सर्वभूतानि स्ववशवर्तीनि । तथाऽवधिज्ञानमेकरूपं वैक्रियशरीरकरणं तदेव च दर्शयत्यणिमादिविशिष्टम् ॥
भा० - जङ्घाचारणत्वं येनाग्निशिखावूमनीहारावश्यायमेधवारिधारामर्कटतन्तुज्योतिष्करश्मिवायूनामन्यतममप्युपादाय वियति गच्छेत् । वियद्गतिचारित्वं येन वियति भूमाविव गच्छेत् शकुनिवञ्च प्रडीनावडीनगमनानि कुर्यात् ॥ .
टी-जङ्घाचारणत्वमग्निशिखाधूमाद्यपि निश्रित्य व्योम्नि गच्छेत्। मर्कटतन्तुः कोलिककोर्शकृततन्तुः । अपरं वियद्गतिचारणत्वं निर्निश्र एव विस्रब्धो भूमाविव व्योम्नि गच्छेत्। यथा च शकुनिर्वियति प्रडीनम्-उपरिष्टाद् गमनं अवडीनम्-अधस्ताद् गमन करोत्येवमसावपि कुर्यात् ॥
भा०-अप्रतिघातित्वं पवतमध्येन वियतीव गच्छेत् । अन्तर्धानमदृश्यो भवेत् । कामरूपित्वं नानाश्रयानेकरूपधारणं युगपदपि कुर्यात् । तेजोनिसर्गे सामर्थ्यमेतदादि । इति इन्द्रियेषु मतिज्ञानविशुद्धिविशेषाद् द्वारात् स्पर्शना-55स्वादन-घ्राग-दर्शन-श्रवणानि विषयाणां कुर्यात् । सम्भित्रज्ञानत्वं युगपदनेकविषयपरिज्ञानमित्येतदादि । मानसं कोष्ठबुद्धित्वं बीजवुद्धित्वं पप्रकरणोद्देशाध्यायप्राभृतवस्तुपूर्वाङ्गानुसारित्वं ऋजुमतित्वं विपुलमतित्वं परचितज्ञानमभिलषितार्थप्राप्तिमनिष्टानवाप्तिमित्येतदादि ॥
टी०-गच्छन् पर्वतमित्यादिभिरपि न प्रतिहन्यत इत्यप्रतिपातित्वम् । अन्तर्धानम्-अदृश्यत्वम् । युगपदनेकरूपधारणं कामरूपित्वम् । तेजोलेश्यामोक्षणम् आदिग्रहणात् शीतलेश्यानिसर्गशक्तिः । मतिज्ञानविशुद्धिप्रकर्षाद् विषयाणां-रूपादीनां देशप्रमाणनियमोल्लङ्घनेनापि ग्रहणं कुर्यात् । युगपदनेकविषयग्रहणं सम्भिन्नज्ञानत्वम् । आदिग्रहणादिन्द्रियव्यत्यासेनापि विषयग्रहणसामर्थ्यम् । मानसं-मनोव्यापारजातम् । कोष्ठवुद्धित्वं
१ 'कर्मोच्चयः' इति ग-पाठः । २ 'जयादभ्या' इति ग-पाठः। ३ 'निश्चित्य' इति ग-पाठः । ४ — कोशिकतन्तुः ' इति ग-पाठः ! ५ 'दूरात् ' इति ग-पाठः । ६ 'सस्भिन्नत्वम् ' इति ग-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org