________________
३१४
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः १० टी०-ज्ञानमित्यत्रापि सर्वत्र सङ्ख्येयगुणत्वम् ॥
भा०-अवगाहना । सर्वस्तोका जघन्यावगाहनासिद्धाः । उत्कृष्टावगाहनासिद्धास्ततोऽसङ्ख्येयगुणाः । यवमध्यसिद्धा असङ्ग्येयगुणाः, यवमध्योपरिसिद्धा असङ्ख्येयगुणाः, यवमध्याधस्तात् सिद्धा विशेषाधिकाः, सर्वे विशेषाधिकाः॥ ___टी०-अवगाहनेत्यत्र उत्कृष्टावगाहनासिद्धा असङ्ख्येयगुणाः । द्वावसङ्ख्येयगुणौ द्वौ विशेषाधिकाविति ॥
भा०-अन्तरम् । सर्वस्तोका अष्टसमयानन्तरसिद्धाः, सप्तसमयानन्तरसिद्धाः षट्समयानन्तरसिद्धा इत्येवं यावद् द्विसमयानन्तरसिद्धा इति सङ्ख्येयगुणाः। एवं तावदनन्तरेषु सान्तरेष्वपि सर्वस्तोकाः षण्मासान्तरसिद्धाः, एकसमयान्तरसिद्धाः सङ्ख्येयगुणाः, यवमध्यान्तरसिद्धाः सङ्ख्येयगुणाः, अधस्तादयवमध्यान्तरसिद्धाः संख्येयगुणाः, उपरियवमध्यान्तरसिद्धा विशेषाधिकाः, सर्वे विशेषाधिकाः॥
__ टी०-अन्तरमित्यत्राष्टासु समयेषु नैरन्तर्येण सिद्धाः सर्वेऽपि सङ्ख्येयगुणाः । सान्तरेष्वपीत्यादि । एकसमयान्तरसिद्धाः सङ्ख्येयगुणा यवमध्यान्तरे च सङ्ख्येयगुणाः, अधस्तादूयवमध्यान्तरे च सख्येयगुणाः॥
भा०-सङ्ख्या। सर्वस्तोका अष्टोत्तरशतसिद्धाः, विपरीतक्रमात् सप्तो. त्तरशतसिद्धादयो यावत् पश्चाशदित्यनन्तगुणाः । एकोनपञ्चाशदादयो यावत् पञ्चविंशतिरित्यसङ्खचेयगुणाः । चतुर्विशत्यादयो यावदेक इति सख्येयगुणाः विपरीतहानिर्यथा-सर्वस्तोका अनन्तगुणहानिसिद्धाः, असङ्ख्येयगुणहानिसिद्धा अनन्तगुणाः, सङ्ख्येयगुणहानिसिद्धाः सङ्ख्येयगुणा इति॥
टी-सङ्ख्येत्यत्र अष्टोत्तरशतसिद्धाः सर्वस्तोकाः । विपरीतक्रमादिति सप्तोत्तरशतसिद्धा अनन्तगुणाः । एवं विपरीतहान्या यावत् पश्चाशदित्यनन्तगुणाः। विपरीतहानियेथेत्यादिना दर्शयति । सर्वस्तोका अनन्तगुणहानि सिद्धाः, असङ्ख्येयगुणहानिसिद्धा अनन्तगुणाः, सङ्ख्येयगुणहानिसिद्धाः सङ्ख्येयगुणा इति ॥
भा०–एवं निसर्गा-ऽधिगमयोरन्यतरजतत्त्वार्थश्रद्धानात्मकं शङ्काद्यतिचारवियुक्तं प्रशम-संवेग-निर्वेदा-ऽनुकम्पा-ऽऽस्तिक्याभिव्यक्तिलक्षणं विशुद्धं सम्यग्दर्शनमवाप्य सम्यग्दर्शनोपलम्भाद् विशुद्धं च ज्ञानमधिगम्य निक्षेप-प्रमाण-नयनिर्देश-सत्सङ्ख्यादिभिरभ्युपायैर्जीवादीनां तत्त्वानां पारिणामिकौ-दयिकौ पश
१ 'असङ्ख्येय ' इति घ-पाठः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org