________________
सूत्रं ७ ]
स्वोपज्ञभाष्य-टीकालङ्कृतम् भा०-तीर्थम् । सर्वस्तोकास्तीर्थकरसिद्धाः तीर्थकरतीर्थे नोतीर्थकरसिद्धाः सङ्ख्येयगुणा इति । तीर्थकरतीर्थसिद्धा नपुंसकाः सङ्ख्येयगुणाः। तीर्थकरतीर्थसिद्धाः स्त्रियः सङ्ख्येयगुणाः । तीर्थकरतीर्थसिद्धाः पुमांसः सङ्ख्येयगुणा इति॥
टी–तीर्थमित्यत्राल्पबहुत्वचिन्ता । तीर्थकरतीर्थे नोतीर्थकरसिद्धा अतीर्थकराः सन्तः सिद्धास्तीर्थकरसिद्धेभ्यः सङ्ख्येयगुणास्ते नपुंसकादयोऽपि सर्वे सङ्ख्येयगुणाः॥
भा०-चारित्रम् । अत्रापि नयो द्वौ-प्रत्युत्पन्नभावप्रज्ञापनीयश्च पूर्वभावप्रज्ञापनीयश्च । प्रत्युत्पन्न भावप्रज्ञापनीयस्य नोचारित्री नोऽचारित्री सिध्यति । मास्त्यल्पबहुत्वम् । पूर्वभावप्रज्ञापनीयस्य व्यञ्जिते चाव्यञ्जिते च । अव्यञ्जिते सस्तोकाः पश्चचारित्रसिद्धाश्चतुश्चारित्रसिद्धाः सङ्ख्येगुणाः त्रिचारित्रसिद्धाः सङ्खयेयगुणाः । व्यञ्जिते सर्वस्तोकाःसामायिक-छेदोपस्थाप्य-परिहारविशुद्धि-सूक्ष्मसम्पराय-यथाख्यातचारित्रसिद्धाः छे दोपस्थाप्य-परिहारविशुद्धि सूक्ष्मसम्पराययथाख्यातचारित्रसिद्धाः सङ्ख्येयगुणाः सामायिक-छे दोपस्थाप्य-सूक्ष्मसम्पराययथाख्यातचारित्रसिद्धाः सङ्ख्येयगुणाः [सामायिक परिहारविशुद्धि-सूक्ष्मसम्पराय-यथाख्यातसिद्धाः सङ्ख्येगुणाः] सामायिक-सूक्ष्मसम्पराय यथाख्यातचारित्रसिद्धाः सङ्खयेयगुणाः छेदोपस्थाप्य सूक्ष्मसम्पराय-यथाख्यातचारित्रसिद्धाः सङ्खयेयगुणाः ॥
टी-चारित्रमित्यत्रापि तावेव द्वौ नयौ चतुश्चारित्रसिद्धेषु द्वौ विकल्पो, विचारित्रसिद्धेष्वपि द्वावेव । सर्वत्र सङ्ख्येयगुणत्वम् । ___ भा०- प्रत्येक बुद्धबोधितः । सर्वस्तोकाः प्रत्येकवुद्धसिद्धाः । बुद्धबोधितसिद्धा नपुंसकाः सख्येयगुणाः । बुद्धबोधितसिद्धाः स्त्रियः सङ्ख्येयगुणाः । बुद्धबोधितसिद्धाः पुमांसः सङ्ख्येयगुणा इति ॥
टी०-प्रत्येकबुद्धबोधित इत्यत्र सर्वस्तोकाः प्रत्येकबुद्धसिद्धाः । सर्वत्र सङ्ख्येयगुणत्वम् ॥
भा०-ज्ञानम् । कः केन ज्ञानेन युक्तः सिध्यति । प्रत्युत्पन्नभावप्रज्ञापनीयस्य सर्वः केवली सिध्यति । नास्त्यल्पबहुत्वम् । पूर्वभावप्रज्ञापनीयस्य सर्वस्तोका विज्ञानसिद्धाः, चतुज्ञानसिद्धाः सख्येयगुणाः, त्रिज्ञानसिद्धाः सङ्ख्ये. यगुणाः। एवं तावदव्यञ्जिते व्यञ्जितेऽपि सर्वस्तोका मति-श्रुतज्ञानसिद्धाः, मतिश्रुता-ऽवधि-मनःपयोयज्ञानसिद्धाः सङ्ख्येयगुणाः, मति-श्रुता-ऽवधिज्ञानसिद्धाः सङ्ख्येयगुणा इति॥
इति' इति पाठो नास्ति घ-पुस्तके ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org