________________
१०
तत्त्वार्थाधिगमसूत्रम्
सूत्रम् -- इन्द्रियकषायात्रतक्रियाः पञ्चचतुःपञ्चपञ्चविंशतिसंख्याः पूर्वस्य भेदाः ॥ ६-६ ॥
[ अध्यायः ६
टी० - इन्द्रियादीनां चतुर्णां कृतद्वन्द्वानां संहत्योत्तर भेदैर्निर्देशः । पञ्च चत्वारः पञ्च पञ्चविंशतिः संख्या येषां ते पञ्चचतुः पञ्चपञ्चविंशति संख्याः । पूर्वस्येति निर्देशसामर्थ्यात् साम्परायिकस्य कर्मणो य आस्रवस्तस्य भेदा भवन्तीति एतदेव भाष्यकारो विशकलयति भाष्येण -
भा०- - पूर्वस्येति सूत्रक्रमप्रामाण्यात् साम्परायिकस्याह । साम्परायिकस्यास्रवभेदाः पञ्च चत्वारः पञ्च पञ्चविंशतिरिति भवन्ति ॥
टी - पूर्वस्येति सूत्रक्रमप्रामाण्यात् साम्परायिकस्याहेत्यादि भाष्यम् । पूर्व - प्रथमं कर्म । किंकृतं प्राथम्यमित्याह – सूत्र क्रमप्रामाण्यादिति । सूत्रे परिपाटीक्रमस्तस्याप्तोक्तत्वात् प्रामाण्यम् । आचार्येण हि सूत्रे साम्परायिककर्मास्रव एव प्रथम - मुपन्यस्तोऽस्तमेव विवृणोति - साम्परायिकस्याह । सम्परायकारणस्य कर्मण आस्रव इति सूत्रकारः प्रागेवमुवाच अतः साम्परायिकस्य कर्मणो य आस्रवस्तस्य भेदाः - प्रकाराः संख्यायन्ते यथाक्रमम् । पञ्चेन्द्रियाणि प्राग्व्यासाम्परायिकास्नवस्य ख्यातस्वरूपाण्यात्मनो लिङ्गादिभूतानि । मूलभेदतश्वत्वारः कषायाः ४९ भेदाः क्रोधादयो वक्ष्यमाणोत्तरषोडशभेदाः । पञ्चावतानि हिंसादीनि लक्षतो वक्ष्यमाणानि । क्रियाः पञ्चविंशतिरिहैव सूत्रे व्याख्यास्यन्ते । एवमेते एकान्नचत्वारिंशदात्मनः परिणतिविशेषाः साम्परायिकस्य कर्मण आस्रवभेदा भवन्ति । तत्रेन्द्रियकषायानुल्लङ्घयाव्रतान्येव व्याचष्टे भाष्यकारः । किं पुनरत्र प्रयोजनमिति ? उच्यते-अयमभिप्रायो भाष्यकारस्य - हिंसादीन्यत्रतानि सकला स्रवजालमूलानि तत्प्रवृत्तावात्रवेष्वेव प्रवृत्तिस्तन्निवृत्तौ च सर्वास्रवेभ्यो निवृत्तिरित्यस्यार्थस्य ज्ञापनार्थं सूत्रोक्तक्रममतिक्रम्यातानि व्याचष्टे भाष्यकारः । सूत्रबन्धशोभाहेतोरिन्द्रियादिसन्निवेशः ॥
Jain Education International
भा०- पश्च हिंसानृतस्तेयाब्रह्मपरिग्रहाः । प्रमत्तयोगात् प्राणव्यपरोपणं हिंसेत्येवमादयो वक्ष्यन्ते (अ० ७, सू०८-१२ ) ॥
डी० – पञ्चैव न न्यूनातिरिक्तानि व्रतानि विरतिलक्षणानि वक्ष्यन्ते । तद्विपरीतानि अत्रतानि - प्राणातिपातादिप्रवृत्तिस्वभावानि, हिंसादीनि कृतद्वन्द्वनिर्दिष्टानि सप्तमेऽध्याये लक्षणतोऽभिधास्यन्ते । तच्च लक्षणमुपलक्षयति- प्रमत्तयोगात् प्राणव्यपरोपणं हिंसेति । प्रमत्तस्य- कषायादिपरिणतिभाजो योगस्तद्धेतुकं यत् प्राणव्यपरोपणं सा हिंसा । इतिशब्दोऽवधारणे । एतावदेव लक्षणं हिंसायाः परिपूर्णप्रपञ्चेन व्याख्यास्यते, एवंलक्षणा हिंसा आदि
१ 'अव्रतकषायेन्द्रियक्रियाः' इति क-पाठः ।
For Personal & Private Use Only
www.jainelibrary.org