________________
मूत्रं ५
स्वोपज्ञभाष्य-टीकालङ्कृतम् "ने य तस्स तन्निमिनो बंधो सुहुमोवि देसितो समए ।"-ओघ० गा० ७४९
"सुद्धस्म उ संपत्ती अफला वुत्ता जिणवरेहिं । " तदेवं सकषायाकषाययोर्योगस्य यथाक्रमं साम्परायिकर्यापथयोः कर्मणोरास्रवो भवति । कर्मग्रहणमास्रवग्रहणं चानुवर्तते । एनमेवार्थ भाष्येण स्पष्टयति
भा०–स एष त्रिविधोऽपि योगः सकषायाकषाययोः साम्प. आम्रवस्य वैविध्यम् रायिकर्यापथयोरास्रवो भवति, यथासङ्ख्यं यथासम्भवं च
सकषायस्य योगः साम्परायिकस्य । अकषायस्येर्यापथस्यैवैकसमयस्थितेः ॥५॥
टी-स एष त्रिविधोऽपि योग इत्यादि । प्रकृतोपयोगाभिसम्बन्धार्थस्तच्छब्दः, एष इत्युपदर्शनार्थः । स एष योगः शुभाशुभभेदस्त्रिविधोऽपि-मनोवाकायलक्षणः । अपिशब्दाद् व्यस्तः समस्तो वा सकषायस्य कर्तुःसाम्परायिकस्य-संसारपरिभ्रान्तिकारणस्य कर्मण आस्रवो भवति । यथोक्तम्-“ पंढमे समए बद्धपुडा बितिए समए वेदिता ततिए समए निजिण्णा सेआले अकम्मं वावि भवति " (इति) पारमौर्षवचनात् त्रिसमयावस्थान एव वेदितव्यः । सकषायाकषाययोद्वयोरपि साम्परायिककर्मबन्धाशङ्कायामीर्यापथकर्मबन्धारेकायां च द्वयोरपीदमाह-यथासङ्ख्यमिति । यथाक्रमं सकपायस्य साम्परायिककर्मास्रवः । यथासम्भवमिति । यस्य यावान् योगः सम्भवत्येकेन्द्रियाणां तावत्काययोगः द्वित्रिचतुरिन्द्रियासज्ञिपञ्चेन्द्रियाणां कायवाग्योगौ संज्ञिपञ्चेन्द्रियाणां मनोवाकाययोगः अकषायस्य संज्वलनवतिनः उपशान्तकषायक्षीणमोहयोश्च मनोवाकाययोगाः केवलिनो वाकाययोगावित्येवं यथासम्भवग्रहणं समर्थितं भवति । योगो व्याख्येय इत्यनुकर्षणार्थश्चशब्दः । एतदेव यथासंख्यक दर्शयति भाष्येण-सकषायस्येत्यादि । सकषायस्य योगःसाम्परायिकस्य कर्मण आस्रवः, अकषायस्येयोपथस्यैवास्रवो न साम्परायिकस्यापीति, एकसमयस्थितेरिति एकस्मिन् समये स्थितिः-अवस्थानं यस्य कर्मण इति । भाषितपुंस्कत्वादेवं निर्देशः । वेद्यमानकर्मसमयो मध्यमः स एव स्थितिः कालः । आद्यो बन्धसमयस्तृतीयः परिशाटसमय इति ॥ ५॥
साम्परायिकश्चर्यापथश्च द्विविधोभिहित आस्रवस्तत्र साम्परायिककर्मास्रवभेदाः कियन्त इत्युच्यते
१-२छाया
न च तस्य तनिमित्तो बन्धः सक्ष्मोऽपि देशितः समये।
शुद्धस्य तु सम्पत्तिरफलोका जिनवरैः । ३ 'प्रथमे समये बद्धस्पृष्टा द्वितीये समये वेदना तृतीये समये निर्जरणं, एष्यत्कालेऽकर्म वाऽपि भवति । ४ 'मार्षाद वचनाद' इति क-पाठः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org