________________
द्वथशीतिः प
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ६ कीर्तिनिर्माणतीर्थकरनामानि । शेषा यशीतिः प्रकृतीनां पापमुच्यते। पञ्च ज्ञानावरणानि, नव . दर्शनावरणानि, असद्वेद्यं, पड्विंशतिधा मोहनीयं सम्यक्त्वसम्यग्मिथ्या
महत्वप्रकृतिद्वयवर्जितम् । यस्मादनयोर्बन्धो नास्ति । मिथ्यात्वमेव ह्येकं बद्धं तथा परिणमते, नरकायुः नीचैर्गोत्रं पञ्चविधमन्तरायं, नरकगति नरकगत्यानुपूर्वी, चतस्रो जातयः संहननसंस्थानानि दश अप्रशस्तवर्णादिचतुष्कं उपघातनाम अप्रशस्तविहायोगतिस्थावरसूक्ष्मापर्याप्तकसाधारण स्थिराशुभदुर्भगदुःस्वरानादेयायशःकीर्तिनामानि । तदेवं शुभाशुभौ योगी पुण्यापुण्ययोरास्रवौ यथाक्रममेव भवतः, न व्यतिरेकेणेति निरूपितम् ॥ ४॥
आस्रवाधिकारमपेक्षमाणः प्रश्नयति-किमयमास्रवः संसारिणां समानफलारम्भहेतुर्भवत्याहोस्विदन्यस्यान्यादृशोऽन्यस्य वाऽन्यथेति । उच्यते-प्राणिनामानन्त्येऽपि उभयथाऽऽत्ममेदसामोद् भवत्यास्रवः॥
सूत्रम्-सकषायाकषाययोः साम्परायिकर्यापथयोः॥६-५॥ टी०-कषः-कर्म भवेत् तस्य आयो-लाभः-प्राप्तिः कषायः क्रोधादिभेदः कर्महेतु
भवहेतुर्वा, सह कषायेण वर्तत इति सकषायः, अविद्यमानः कषायोऽसूत्रगतशब्दानां कषायः । इतरेतरयोगद्वन्द्वात् षष्ठीद्विवचनमनित्यत्वानियमस्य , आहि__व्युत्पत्तिः ताग्न्यादित्वाद् वा कामतः पूर्वनिपातः, बहुवक्तव्यत्वाद् वाऽभ्यर्हित
त्वादुभयोरपि पूर्वनिपातः । सम्परेत्यसिन्नात्मेति सम्परायः-चातुगेतिकः संसारः । समित्ययं समन्ताद्भावे सङ्कीर्णादिवत् पराभृशार्थे सम्परायते च, स सम्परायः प्रयोजनमस्य कर्मणः साम्परायिक--संसारपरिभ्रमणहेतुः । ईरणमियो गतिरागमानुसारिणी । विहितप्रयोजने सति पुरस्ताद् युगमात्रदृष्टिः स्थावरजङ्गमाभिभूतानि परिवर्जयन्नप्रमत्तः शनैर्यायात् तपस्वीति सैवंविधा गतिः पन्था-मार्गः प्रवेशो यस्य कर्मणस्तदीयोपथं, एवंविधगतिः उपादानं कर्मकषायस्य, गतिरत्रोपलक्षणमात्र, योगमात्रप्रत्ययत्वात्, गच्छतस्तिष्ठतो वा त्रिसमयस्थितिको भवत्यकषायस्य बन्धः । अकषायो वीतरागः सरागश्च । तत्र वीतरागस्त्रिविधः-उपशान्तमोह एकः, क्षीणमोहकेवलिनौ च कात्स्येनोन्मूलितकर्मकदम्बको, सरागः पुनः संज्वलनकषायवानपि अविद्यमान उदयोऽकषाय एव, मन्दानुभावत्वमनुदराकन्यानिर्देशवद्, अतश्चोपपन्नमिदं
"उच्चालियम्मि पाए, इरियासमियस्स संकमठाए । वावजेज कुलिंगी, मरेज जोगमासज्ज ॥१॥"
-ओघनिर्युक्तौ गा० ७४७ १. वेत्वद रा.' इति ग-पाठः।
२ छाया
उचालिते पादे ईर्यासमितस्य संक्रमार्थम् । व्यापद्येत कुलिङ्गी मियते तं योगमासाद्य ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org