________________
सूत्रे ३-४ ]
स्वोपज्ञभाष्य–टीकालङ्कृतम्
७
दास्स्रवोऽप्यात्मनः सरस्तुल्यस्य सम्बन्धी तत्परिणामविशेषः कर्मसलिलस्य प्रवेशे रेन्धं निर्गमे निर्झरणे कारणमा स्रवः, कर्माण्यास्रवन्त्यनेनात्मनोपयान्तीति भावनीयम् ॥ २ ॥
प्रथमे सूद्वधा योग व्याख्यातः - शुभश्वाशुभश्च । तत्र यः शुभः स किं सर्वस्याविशेपेण कर्मण आस्रव इष्यते आहोस्वित् कस्यचिदेव ? अशुभेऽप्येवं विकल्प इत्येवं सन्देहे सति विमति निराकरणार्थमिदमाह-न सर्वस्य कर्मणः शुभो योग आस्रवः । किं तर्हि ?
सूत्रम् — शुभः पुण्यस्य ॥ ६-३ ॥
टी० - शुभपरिणामानुबन्धात् शुभो योगः । द्विचत्वारिंशद्भेदं कर्म पुण्यं वक्ष्यते तस्यैवास्रवः शुभो योगः पुण्यस्य, न जातुचित् पापस्यापीति, एतद् विषृणोति भाष्येण- शुभो योगः पुण्यस्यास्रवो भवति ॥ ३ ॥
----
भा०
टी० - प्राणातिपातादिनिवृत्त्यादयः सत्यादयोऽपरिग्रहता धर्मध्यानादयश्च शुभो योगः, स पुण्यस्यैवासवो न पापस्येत्यर्थान्निश्चितमिदमिति मन्यमानो भाष्यकारः ॥ ३ ॥ शुभः पुण्यस्यैवेत्युक्ते तत्प्रत्यनीकनिवृत्तिरैकान्तिकी दीपज्वलनवचसस्तमोऽपगमवा पृथक् प्रयत्नः सूत्रेण कार्य इत्यर्थलब्धव्याख्यानाभिप्रायेणाह -
सूत्रम् - अशुभः पापस्य ॥ ६-४ ॥
टी० - प्राणातिपातादिलक्षणस्त्रिविधोऽप्यशुभः पापस्य व्यधिकाशीतिभेदस्यास्त्रवो भवति । उभयनियमश्चात्र न्याय्यः, शुभो योगः पुण्यस्यैवास्रवो भवति, न कदाचित् पापस्य, एवमशुभः पापस्यैव, न कदाचिच्छुभस्यास्रवः । शुभः पुण्यस्यैवेति च पापनिवृत्तिराख्यायते, न तु निर्जराहेतुत्वनिषेधः । स हि पुण्यस्य निर्जरायाश्च कारणं शुभो योगः ||
भा०-तत्र सद्वेद्यादि पुण्यं वक्ष्यते । शेषं पापमिति ॥ ४ ॥
0
टी. - तत्रेति तयोः पुण्यापुण्ययोः । पुण्यं तावत् सद्वेद्यादि वक्ष्यते ऽष्टमेऽध्याये (सू० २६) । सद्वेद्यमादिर्यस्य तत् सद्वेद्यादि । आदिग्रहणात् सम्यक्त्वहास्यर तिपुरुषवेदशुभायुर्नामगोग्रहणं तत् पुण्यमुदात्तगतिशरीर संस्थानसंहननाङ्गोपाङ्ग निर्वर्तनं, शक्तीष्ट स्पर्शरसरूपगन्धशब्दानुभवनिमित्तं विशिष्टकुलरूपलक्षणशील प्रतिभादेशकालपरिजनप्रियत्वापादकं सद्धर्मानुबन्धि, तस्य शुभयोग आस्रवो भवति, एवं पुण्यं कर्म विनिश्चित्य पापविनिश्चयायाह - शेषं पापमिति । उपयुक्तादन्यच्छेषम् । अष्टप्रकारे मूलकर्मणि द्विचत्वारिंशदुत्तरप्रकृतयः पुण्यम् । तद्यथा-सहेद्यं देवनरतिर्यगायूंषि उच्चैर्गोत्रं पञ्चेन्द्रिया जातिः मनुष्यगतिनाम मनुष्यगत्या - नुपूर्वी देवगतिः देवगत्यानुपूर्वी पञ्च शरीराणि त्रीण्यङ्गोपाङ्गानि प्रथमसंहननसंस्थाने शुभवर्णादिचतुष्कं अगुरुलघुनाम पराघातनाम उच्छ्रासनाम आतपनाम उद्योतनाम प्रशस्त विहायोग तित्र सबादरपर्याप्तप्रत्येक स्थिर शुभसुभगसुखरादेययशः
१' बन्धे' इति ङ-पाठ ।
द्विचत्वारिंशत् पुण्यप्रकृतयः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org