________________
तत्वार्थाधिगमसूत्रम्
[ अध्यायः ६ पयुज्योत्तरगुणा अपि योगविभागेन वाच्याः । तदेतत् सूत्रं समस्तकुशलाकुशलचारि कृतमस्ति, शेषमकुशलम् अध्यात्मचिन्ताप्रधानाः समादिशतीति ॥ १॥
कायादियोगस्वरूपमभिधाय तत्त्वमूत्रप्रकृतमास्रवमिदानीमभिसम्बध्नाति–योऽयं योगशब्दाभिधेयः संसारिणः पुंसः क्रियाकलापः
सूत्रम्--स आस्रवः ॥ ६-२॥ टी–स इति तच्छब्देन कायादियोगाभिसम्बन्धः, आस्रवन्ति तेन कर्माण्यात्मन इत्यास्रवः । पुंसि संज्ञायां घः प्रसिद्धः। स तत्प्रणालिकयाऽनेकप्रकारकर्मास्रवणादास्रवः । प्रयोगावेशाचार्टीकृतस्य पुंसो यथासम्भवं कषायादिक्रियापरिगतिभाजः कर्मसम्बन्धप्रसिद्धिः, कायादिव्यापाररूपेणापरिगतस्यात्मनः कर्मवन्धतत्कलोपभोगमोक्षाभावादवश्यमेवंविधपरिणामापत्तिमभ्युपैतीति, एनमेवार्थ भाष्येण दर्शयति
भा०–स एष त्रिविधोऽपि योग आस्रवसंज्ञो भवति ॥
टी०–स एष इत्यादि । स इति प्रागुद्दिष्टस्य निर्देशः । एष इत्युपप्रदर्शने, यथा स एष धीमानिति अनैकान्तवादिनो (१) निर्जिताः,तिस्रो विधा यस्य सः, त्रिप्रकारोऽपि कायवाङ्मनोयोगः । अपिशब्दः समुच्चये । एकैकोऽपि समुदायोऽपि, आस्रवः संज्ञा नाम अस्येत्यास्रवसंज्ञः। संज्ञाशब्दोपादानादन्वर्थसंज्ञाकथनम् ।
तदेवान्वर्थसंज्ञत्वं दर्शयति
भा०-शुभाशुभयोः कर्मणोरास्रवणादास्रवः, सरसः सलिलावाहिनिर्वा हिस्रोतोवत्॥२॥
टी०-शुभाशुभयोरित्यादिना । शुभाशुभे-पुण्यापुण्ये कर्मणी पुद्गलात्मके च जो
वक्ष्यमाणलक्षणे तयोः कर्मणोराज्ञेवणं-ग्रहणं तेन क्रियाविशेषेणो
पादानात् स तादृशः क्रियाकलापः आस्रवः, तथापरिणामतो जीव: कर्मादत्ते, अन्यथा त्वभाव एव कर्मबन्धस्येति । स च द्रव्यभावभेदाद् द्विप्रकार आस्रवः । तत्र द्रव्यास्रवप्रदर्शनेन भावास्रवं प्रतिपादयन्नाह-सरसः सलिलावाहिनिर्वाहिस्रोतोवदिति । सलिलमावहति तच्छीलं सलिलावाहि, तथा सलिलं निर्वहतीति सलिलनिर्वाहि सलिलावाहिनिर्वाहिणी च ते स्रोतसी चेति सलिलावाहनिर्वाहिस्रोतसी ताभ्यां तुल्य आस्रवः सलिलावाहिनिर्वाहिस्रोतोवदास्रवः । स्रोतो-विवररन्धं कस्य सम्बन्धि ? सरसः-तडागस्य । किंप्रयोजनं तत् स्रोतः १ सलिलावाहि सलिलप्रवेशप्रयोजनम् , एवं सलिलनिर्गमप्रयोजनं सलिलनिर्वाहि तद्व
१ 'एसी' इति क-पाठः । २ 'क्षभावादतशपमेवं ' इति क-पाठः । ३ · रास्रवणादू प्रहणात् ' इति पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org