________________
स्त्रं १
स्वोपज्ञभाष्य-टीकालङ्कृतम् नपरिग्रहसंज्ञासम्भवान् । आदिशब्दाद् दहनच्छेदनालेखनहास्यधावनवल्गनलङ्घनावरोहणास्फोटनप्रभृतिकर्मविशेषाः कायिको योगः ॥
वाचिकयोगप्रदर्शनार्थमाह
भा०–सावद्यानृतपरुषपिशुनादीनि वाचिकः ॥ वाचिकयोगस्य भेदाः टी०-सत्यमपि वचः सावयं वाचिकं कर्माशुभं यथा-हन्यन्तां
- तस्कराः, व्यापाद्यन्तां हिंस्राः । अनृतमयथार्थमेव अचौरं चौरं [कार]माक्रोशयति । परुष-स्नेहरहितं यथा-घिर जाल्म ! मूर्खस्त्वं पापाचार इति । पिशुनं सत्यमपि प्रीतिशून्यतापादनादन्यस्य परोक्षस्य सतो दोपसूचकं वचः । अन्योक्तकार्येषु देवदत्तो यत इदं चेदं चानेनाकारीति । आदिशब्दादसत्यच्छलश(शाठ्य?)दम्भोल्लण्ठिकाकटुकसन्दिग्धमितविकथाश्रितः प्रवचनविरोधी वाचिकः सर्वः ॥ ___मनोयोगनिरूपणार्थमाहमानसिकयोगस्य भेदाः भा०-अभिध्याव्यापाऱ्यांसूयादीनि मानसः ॥
___टी-सदा सत्त्वेष्वभिद्रोहानुध्यानं अभिध्या, यथा-अस्मिन् मृते सुखं वसामः । सापाय उत्पादनारम्भो व्यापादः, . यथा-अस्त्यस्याऽमित्रं शक्रपविहन्त तमेव प्रकोपयामीति । ईया परगुणविभवाद्यक्षमा, यथा-सुभगेयमस्मै रोचते तत् कथमियं द्वेष्यति । तथा प्रागयं द्रमकदाजीवोऽधुना तु धनदायते तत् कथमयं दरिद्रः स्यादिति । असूया क्रोधविशेष एव, यथा-राजपल्यभिरतोऽयं तथापि शुद्धवृत्तमात्मानं मन्यत इति । आदिग्रहणेनाभिमानहर्षशोकदैन्यमन्युमिथ्याभिसन्धिरागद्वेषपरपरिभवात्मविस्मयासहिष्णुतागातिरौद्रध्यानपरिग्रहः । ___ एवं तावदकुशलयोगनिर्धारणं कृतम् । अथ कुशलाः काययोगाः कीदृशा भवन्तीत्यत आह
भा०--अतो विपरीतः शुभ इति ॥१॥ टी०-अतः अकुशलात् काययोगाद् वाग्योगान्मनोयोगाचाऽभिहितलक्षणाद् विपरीतः
___ कुशलः शुभा द्रष्टव्यः । तद्यथा--अहिंसा अस्तेयं ब्रह्मचर्यमित्यादीनि शुभयोगस्य भेदाः काययोगः शुभः । असावद्यादिवचनमागमविहितभाषणं च कुशलमित्य
नेन द्वितीयव्रतपरिग्रहः । अनभिध्यादिधर्मशुक्लध्यानध्यायिता वेति मनोयोगः कुशलः, मूर्छालक्षणः परिग्रह इति मनोव्यापार एव । तथा निशि भक्तविरतिरित्येवमु
१'अभ्युक' इति पाठः। २'मानसिकः' इति पाठः। ३ कुत्सित आजीवो यस्य स कदाजीवः। ४'रतोऽनेन' इति पादः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org