________________
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ६ यथा, तद्विपरीतोऽसत्यः पापं नाम नास्ति किश्चिन् । उभयलक्षणः सत्यानृतो यथा-इमा गावश्वरन्ति, पुंसामपि तत्र सम्भवादुभयलक्षणयोगात्। असत्यानृतो यथा—हे देवदत्त ! ग्राम गच्छेत्यादि । तथा मनोयोगोऽपि, वाचा विना न चिन्तयते (?) । एतान्येवार्थान्तराणि भावनीयानि सत्यादिभेदेन ॥
भा०--स एकशो द्विविधः । शुभश्चाशुभश्च ॥ प्रत्येकयोगस्य द्वैविध्यम्
टी–स त्रिविधो योगः कायादिसंज्ञः एकशो द्विविधो भवति ।
___एकश इति एकैकः कायादियोगाद् द्विभेदः प्रतिपत्तव्यः । को पुन: स्तौ भेदावित्याह-शुभश्चाशुभश्चेति । उपादानपरिहारार्थमुभयोरुपक्षेपः । अन्यतरोपक्षेपे अन्यतरो गम्येत वा न वा । उभयपरिज्ञाने तु सति परीक्षितगुणदोषोऽन्यतरमुपादास्यतेऽन्यतरं च परित्यक्ष्यतीति । तत्र काययोगः शुभश्चाशुभश्च, एवं वाग्योगो मनोयोगश्च । शुभंपुण्यं सातादि सकलकर्मक्षयो वा तद्धेतुत्वाच्छुभः । शेषं पापमेव नारकादिजन्मफलं, संसारानुबन्धि तद्धेतुत्वादशुभः॥
भा०–तत्राशुभो हिंसास्तेयाब्रह्मादीनि कायिकः ॥ कायिकयोगस्य भेदाः
.. टी.-तत्रेति तयोः शुभाशुभयोरशुभस्तावदाख्यायते । किं पुनः
" प्रयोजनं क्रमोल्लङ्घने ? । अयमभिप्रायो भाष्यकृतः-प्रागशुभः कथ्यमानः संवेगमुत्पादयति, दुःखानुबन्धित्वात्, संविनश्च श्रोतजनः शुभेऽपि योगे संसारानुबन्धिनि न प्रवर्तिष्यते, संसारानुबन्धित्वादिति । तत्र हिंसास्तेयाब्रह्मादीनि कायिकः । “प्रमत्तयोगात् प्राणव्यपरोपणं हिंसे"ति वक्ष्यते (अ०७, सू०८)। कायिकयोगः केवलोऽसंशिषु मह्यादिषु प्रसिद्धः सिद्धान्ते, मनोव्यापारवर्जितः प्राणिनां प्राणहन्ता योऽपि योगत्रयभाव प्राणी तस्याप्युपसर्जनीभूतमनोवाग्व्यापारस्य कायिकयोग एव हिंसकत्वेनोद्भूतशक्तित्वाद् विवक्षितः,अन्यत्र गतचित्तस्यान्यविषयां च वाचं भाषमाणस्य प्रमादिनः, तथा परोऽचिन्तितार्थेन वाग्योगेन हिनस्ति अन्यः पुनर्मनोव्यापारेणैव कायवाकक्रियानिरपेक्षः करोति हिंसाम् अपरः कायवाननोव्यापारवान् प्राणिनः पिनष्टीत्येवं तेषु यः केवलः कायव्यापारः स विवक्ष्यते । तथा परपरिगृहीतस्यानिसृष्टस्य चादानं तृणादेरपि स्तेयम् । तच वक्ष्यते लक्षणतः "अदत्तादानं स्तेयम्," (अ० ७,सू० १०) एतदपि प्रत्येकयोगवर्ति समुदायवर्ति च व्याख्याय केवलकायव्यापाररूपं ग्राह्यम् । अब्रह्मापि समुपजातवेदोदयस्य चेतनारेतनवस्तुविवरलिङ्गाकृतिविश्यमासेवनं स्वावयवनोदजनितं च स्पर्शसुखं, तच्च वक्ष्यते-"मेथुनमब्रह्म" (अ०७, मू०११), अत्रापि केवलकायव्यापारः सम्भवात् उपयुज्य वाच्यः, काङ्क्षामोहसद्भावात् । पृथिव्यादिष्वाहारभयमेथु
१. चिन्ताविनायते ' इति ग-पाठः, ' चिन्ताविनयत' इति तु क-पाठः । २ ‘मह्यादिष्वसंशिषु' इति पादः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org