________________
व्याख्या
सूत्र १) ... स्वोपक्षमाप्य टीकालङ्कृतम् यस्तो वाग्व्यापारो दृष्टोप्रणिहितचेतसः, तथा कायवाग्व्यापाराभावेऽपि कदाचिन्मनोव्यापार एव केवलो दृष्टः कचित्, अतः समुदिताः कायादय-आत्माधिष्ठिता एककाच क्रियाहेतवः। तत्र कायप्रयोजनं कायिकं, कायेन वा निवृत्तं, तत्र वा भवं, एवं वाचिकमानसे अपि वाच्ये । इतिशब्दः कर्मेयत्ताप्रतिपादनार्थः । एतावत् कर्मात्मनः कर्तुः शरीरैकत्वपरिणामादमिनं करणं भवति, वीर्ये निव] अन्योन्यानुगतिपरिणामाद् द्रव्यरूपाः कायादियोगा भावयोगं वीर्य निवर्तयन्ति । यथा कर्तुः शरीरस्य आगमने निर्वयेऽप्यादौ कारणममिनमेकत्वादेवमेते अपीति। अत एष एव शरीरात्मप्रदेशपिण्डः प्रतिविशिष्टक्रियाकारित्वव्यवच्छिन्नस्त्रिविधो योगो भवति । तिस्रो विधा यस्यासौ त्रिविधः । तदेव प्रतिविशिष्टक्रियाकारित्वमुपसूचयतित्रिविधयोगानां
भा०-कायात्मप्रदेशपरिणामो गमनादिक्रियाहेतुःकाय' योगः । भाषायोग्यपुद्गलात्मप्रदेशपरिणामो वाग्योगः । मनो
से
योग्यपुद्गलात्मप्रेदशपरिणामो मनोयोगः ॥ टी०-त्रिविध इति मूलभेदकथनम्, उत्तरभेदास्तु पञ्चदश भवन्ति । तद्यथा
- औदारिककायेन योगः औदारिककाययोगः औदारिककायावष्टम्भोसप्तविधत्तम पजातक्रियाभिसम्बन्ध औदारिककाययोगः, तियअनुष्याणामेव, केव
लिसमुद्घातकाले च प्रथमाष्टमसमययोरिष्टः, स एव कार्मणसहचरित औदारिकमिश्रकाययोगः, केवलिसमुद्धाते द्वितीयषष्ठसप्तमसमयेषु समस्ति । औदारिकादिशरीराणां च द्वितीयाध्याये ( सू० ३७-४९) स्वरूपमभिहितम् । औदारिककार्मणशरीरद्रव्यमिश्रुत्वात् मिश्रव्यपदेशः । यथा गुडमिश्रमन्नं न तु गुड इति व्यपदिश्यते अकेवलत्वाद,असम्पूर्णत्वादेवौदारिकयोगः सम्पूर्णोऽन्यव्यतिमिश्रत्वादौदारिकमिश्रकाययोगः। औदारिकस्य च प्राधान्यात् तेन निर्देशो विहितः । विविधक्रियाकारणो वैक्रियकायस्तेन योगः। स च नारकदेवानां तिर्यग्मनुष्याणां च विभूतिप्राप्तानाम्, एषामेव चौदारिकेण सह ग्रहणकाले वैक्रियमिश्रकाययोगः । पूर्ववन्मिश्रशब्दार्थः सर्वत्र । प्रयोजनार्थमाहियत इत्याहारकः काययोगः । स च साधोरेवर्द्धिप्राप्तस्य, स एवौदारिकेण सहाहारकमिश्रकाययोगो ग्रहणकाले भवति । सर्वकर्मप्ररोहबीजं सांसारिकसुखदुःखभाजनं कर्मैव कार्मणशरीरं तेन योगः कार्मणकाययोगः । स च विग्रहेसमापत्तौ केवलिसमुद्घाते वा त्रिचतुर्थपञ्चमसमयेषु भवति। कर्मणि वा भवं कार्मणम् । न च कर्मकार्मणयोरैक्यम् । कार्मणस्य कर्मणा निष्पादितत्वात् , किन्तु कर्मकार्मणवर्गणानां सदृशत्वात् तथैव तस्य व्यपदेशः कार्मणमिति । तैजसशरीरमाहारपाचनसमर्थमवियुक्तं कार्मणयोगेनेति न भेदेनोपात्तं स्वातन्त्र्यस्वाभाव्यात् । एवं काययोगः सप्तविधः प्रदर्शितः ॥ चतुर्धा वाग्योगस्तत्र निश्चयव्यवहारो यथार्थः सत्यः पापाद विरतव्यमिति
‘निर्वतयन्ति ' इति क-ख-पाठः । २ 'ध्याणां केवलि.' इति ग-पाठः । ३ 'अन्न' इति क-ग-पाठः। ४ 'कारणार्थ ' इति ग-पाठः । ५. समापनः ' इति ग-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org