________________
सूत्रं ६ ]
स्वोपज्ञभाष्य–टीकालङ्कृतम्
येणामनृतादीनामात्मपरिणामानां त एवमादयो वक्ष्यमाणा हिंसादयः साम्परायिकस्य
भा०—चत्वारः क्रोधमान माया लोभाः अनन्तानुबन्ध्यादयो वक्ष्यन्ते ( अ० ८, सू० १० ) ॥
टी० - चत्वारः क्रोधादयः । अव्रतानन्तरं कषायगौरवप्रतिपादनार्थमाह- क्रोधादयोऽप्रीतिगर्वपरवश्चनामूर्च्छालक्षणाः कषायाः, अनन्तः - संसारस्तमनुबध्नन्ति तच्छीलाश्चानन्तानुबन्धिनो वक्ष्यमाणलक्षणास्ते आदिर्येषां तेऽनन्तानुबन्ध्यादयः । आदिशब्दग्रहणादप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनग्रहणम् । अनन्तानुबन्धिनश्वत्वारः क्रोधादयः, अप्रत्याख्यानाश्वत्वारः क्रोधादयः, प्रत्याख्यानावरणाश्चत्वारः क्रोधादयः, तथा संज्वलनाश्चत्वार एव क्रोधादयः, इत्येवमेते षोडश कषाया वक्ष्यन्ते लक्षणतः । एते च साम्परायिकस्य कर्मण आस्रवाः, तथा तेषु कषायेषु सत्सु -
आस्रवास्तथा—
भा० - पञ्च प्रमत्तस्येन्द्रियाणि ॥
टी० - पञ्च प्रमत्तस्येन्द्रियाणि स्पर्शनादीनि स्पर्शादिषु विषयेषु कषायादिपरिणतियुजः साम्परायिकस्य कर्मण आस्रवा भवन्ति । तदनन्तरं
११
तद्यथा -
भा० - पञ्चविंशतिः क्रियाः । तत्रे क्रियाप्रत्यया यथासङ्ख्यं प्रत्येतव्याः । -सम्यक्त्व- मिथ्यात्व-प्रयोग- समादाने यपथाः कायाधिकरण- प्रदोषपरितापन - प्राणातिपाताः दर्शन-स्पर्शन-प्रत्यय-समन्तानुपाताऽना भोगाः स्वहस्त - निसर्ग- विदारणा- नयना - नवकाङ्क्षा आरम्भ - परिग्रह-माया मिथ्यादर्शनाऽप्रत्याख्यानक्रिया इति ॥ ६ ॥
टी० - पञ्चविंशतिः क्रिया इन्द्रियकषायात्रतैः इन्द्रियादयश्च आभिः सङ्कीर्णाः शुद्धाश्च परस्परव्यतिकीर्णाव्यतिकीर्णरूपा एकास्रवत्वं प्रतिपद्यन्ते । पञ्चविंशतिरेवात्मनः सकषायकर्मणः क्रियारूपाः परिणामाः, तत्र तेषु साम्परायिककर्मास्रवेषु इमे ये वक्ष्यन्ते लक्षणतः, क्रिया एव प्रत्ययः - कारणं येषां साम्परायिककर्मास्त्रवाणां ते क्रियाप्रत्ययाः- क्रियाकारणकाः यथासङ्ख्यं येन सङ्ख्याविशेषेण क्रियाः प्रसिद्धास्तदत्र यथासङ्ख्यमुच्यते, यथासङ्ख्यं या या सङ्ख्या क्रियाणां प्रत्येतव्या - विज्ञेयाः । तद्यथेत्यनेनोदाहरति तान् क्रियाविशेषान् सम्यक्त्वमिथ्यात्वेत्यादि । इमाः पञ्चविंशतिक्रियाः सकषायस्य कर्तुः साम्परायिकस्य कर्मण आस्रवा भवन्ति, यथासम्भवं व्याख्येयाः । तत्र सम्यक्त्वक्रिया - सम्यक्त्वकारणम् । सम्यक्त्वं च मोहशुद्धदलिकानुभवः, प्रायेण तत्प्रवृत्ता क्रिया सम्यक्त्वपञ्चविंशतेः क्रियाणां क्रिया - प्रशमसंवेग निर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणजीवादिपदार्थविवेचनम् विषया श्रद्धा जिनसिद्धगुरूपाध्याययतिजन योग्य पुष्पधूपप्रदीपचामरातपत्रनमस्करणवस्त्राभरणान्नपानशय्यादानाद्यनेकवैयावृत्याभिव्यङ्गया च सम्यक्त्व सद्भावसंवर्धनपट्वी सद्वेद्यबन्धहेतुर्देवादिजन्मप्रतिलम्भकारणम् । अतो विपरीता मिथ्या
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org