SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ सूत्र ८ ] स्वोपज्ञभाष्य–टीकालङ्कृतम् २२३ तथोक्तः । संसारो नरकादिगतिचतुष्टयं तस्मान्निर्वाहको निस्तारकः । न चासावभावीभवति मुक्तावस्थायामित्याह - भा० – निःश्रेयसप्रापको भगवता परमेषिणाऽर्हताऽहो स्वाख्यातो धर्म इत्येवमनुचिन्तयेत् । एवं ह्यस्य धर्मस्वाख्यातत्वमनुचिन्तयतो मार्गाच्यवने तदनुष्ठाने च व्यवस्थानं भवतीति धर्मस्वाख्यातत्वानुचिन्तनानुप्रेक्षा ॥१२॥७॥ टी० - निःश्रेयप्रापक इति । निथितं श्रेयो निःश्रेयसं-स्वात्मन्येवावस्थानं समस्तकर्मापेतस्य निःश्रेयसमुच्यते तस्य प्रापकः, तस्य पर्यायान्तरस्योत्पादक इत्यर्थः । यशोविभवादियुक्तो भगवान्, परमर्षिरिति समधिगतसकलज्ञानस्तीर्थ करनाम कर्मोदयात् तीर्थस्य प्रणायकः चन्दनपूजाद्यर्होऽर्हन्, तेनामोघवचनेन स्वाख्यातो अहो इत्याश्चर्ये नापरेण केनचिदेवं कथितः सुप्रत्सर्गापवादलक्षणः ख्यातो धर्म इत्येवमस्य धर्मस्वाख्यातत्वमनुचिन्तयतो मार्गाच्यवने तदनुष्ठाने वाऽवस्थानं भवतीति । मार्गो - रत्नत्रयं मुक्तेः पन्थाः तस्मादच्यवनम् - अप्रच्यवनमनपेतत्वम् । तदिति मार्गस्य सम्बन्धः, तस्यानुष्ठानंश्रद्धानं स्वाध्यायक्रिया चरणम् । एतदेव परमार्थतोऽच्यवनं मार्गाद् यथोक्तक्रियाऽनुष्ठानमित्येषा धर्मस्वाख्यातत्वानुचिन्तनानुप्रेक्षा ॥ ७ ॥ भा०—उक्ता अनुप्रेक्षाः । परीषहान् वक्ष्यामः टी० - उक्ता अनुप्रेक्षाः सोदाहरणाः । सम्प्रति परीषहान् वक्ष्याम इति प्रतिजानीते परीषह सहने हेतू - सूत्रम् - मार्गाच्यवन निर्जरार्थं परिषोढव्याः परीषहाः ।। ९-८ ।। भा०- सम्यग्दर्शनादेर्मोक्षमार्गादच्यवनार्थ कर्मनिर्जरार्थं च परिषोढम्पाः परीषहा इति ॥ ८ ॥ टी० - अर्थशब्दः प्रत्येकमभिसम्बध्यते - मार्गाच्यवनार्थं निर्जरार्थं च । परीषदाघिसने मार्गाच्यवनं प्रयोजनम् । कदाचित् क्लिष्टचित्तः क्लीवत्वात् सहनासमर्थः सन्मार्गात् प्रच्यवेतापि अतस्तत्सहनादरः मार्गः, तस्य तु सम्यगधिसहमानस्य गिरेरिव निष्प्रकम्प - सो निराकुलध्यानस्य जायते कर्मनिर्जरा । एतदेवाह - सम्यग्दर्शनादेरित्यादिना । तत्वार्थश्रद्धांनादिलक्षणो मार्गों निर्वृतेरात्यन्तिक्याः, तस्या मार्गान्मा प्रच्योष्महीति सान्ते Jain Education International १ ' निःसारकः' इति च पाठः । २ 'मर्षिणाऽहो ख्यातो धर्म' इति ग-पाठः । ३' स्वाख्याततत्त्व • " इति ध-पाठः । ४ ' आत्मन्येव ' इति ङ - पाठः । ५ ' विभावादि ' इति घ- पाठः । ६' कुलस्य ध्यानैक (?) जायते ' इति ग-च-पाठः । ७ ' श्रद्धानाश्रद्धानादि' इति ग-पाठः । For Personal & Private Use Only www.jainelibrary.org
SR No.004023
Book TitleTattvarthadhigam Sutram Part 02
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages396
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy