SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ २२४ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ९ परीषहाः । तथा ज्ञानावरणादिकर्मक्षपणार्थ च (परि)सोढव्याः सिद्धि[प्रस्थान प्राप्तिकारणसंवरविघ्नहेतवः परिषोढव्याः, परीषहा इति निर्वचनम् । समन्तादापतन्तः क्षुत्पिपासादयो द्रव्यक्षेत्रकालभावापेक्षाः सोढव्याः-सहितव्याः परीपहा भण्यन्ते । “कृत्यल्युटो बहुलं" (पा० अ० ३, पा० ३, मू० ११३ ) इति करणाधिकरणाभ्यामन्यत्रापि कर्मणि घप्रत्ययः । परिसह्यन्त इति परीषहाः॥८॥ कियन्तस्ते किनामानः किंस्वरूपाश्चेत्याहमा०-तद्यथाटी०-तद्यथेति सङ्ख्यादिनिरूपणोपक्रमणम् । सूत्रम्-क्षुत्पिपासाशीतोष्णदंशमशकनाम्यारतिस्त्रीचर्यानिषद्या. ... शय्याऽऽक्रोशवधयाचनाऽलाभरोगतृणस्पर्शमलसत्कार२२ परीषहाः पुरस्कारप्रज्ञाऽज्ञानादर्शनानि ॥ ९-९॥ टी०-क्षुत्पिपासेति सूत्रम् । क्षुत्पिपासादयः परीपहा द्वाविंशतिर्नामतः क्षुदादिनामानः । स्वरूपमपि शब्दार्थेनावेदितमेव । सङ्ख्यादीनां त्रयाणामपि प्रदर्शनं करोति भाष्यकार: भा०-क्षुत्परीषहः १ पिपासा २ शीतं ३ उष्णं ४ दशमशकं ५ नान्यं ६ अरतिः ७ स्त्रीपरीषहः ८ र्यापरीषहः ९ निषद्या १० शय्या ११ आक्रोशः १२ वधः १३ याचनं १४ अलाभः १५ रोगः १६ तृणस्पर्शः १७ मलं १८ सत्कारपुरस्कारः १९ प्रज्ञाऽज्ञाने २०-२१ अदर्शनपरीषहः २२ इति ॥ टी०-क्षुद्वेदनामुदिता शेपवेदनातिशायिनी सम्यग् विषहमानस्य जठरान्त्रविदाहिनीमागमविहितेन विधिना क्षुधां शमयतोऽनेपणीयं च परिहरतः क्षुत्परीषहजयो भवति । अनेषणीयग्रहणे तु न विजितः स्यात् क्षुत्परीपहः । एवं पिपासापरीषहः । एषणीयभावे तु प्राणिदयालुना समस्तमनेपणीयं परिहरता शरीरस्थितिः कार्यो । शीतपरीषहजयस्तु शीते पतति महत्यपि जीणेवसनः परित्राणवर्जितो नाकल्पानि वासांसि गृह्णाति शीतत्राणाय । आगमविहितेन विधिना एपणीयमेव कल्यादि गवेपयेत् परिभुञ्जीत वा । नापि शीतार्ताऽनि ज्वालयेत् । अन्यज्यालितं वा नासेवेत । एवमनुतिष्टता शीतपरीपहजयः कृतो भवति । एवमुष्णतप्तोऽपि जलावगाहनस्तानव्यजनवातादि वर्जयेत्, अभिधारितच्छायादि वा । अत १ 'क्षुधादि' इति च-पाठः। २ ऽनैषणायां च.' इति ड-च-पाठः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004023
Book TitleTattvarthadhigam Sutram Part 02
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages396
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy