SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञभाष्य-टीकालङ्कृतम् ३२३ मा०-तादात्म्यादुपयुक्तास्ते, केवलज्ञानदर्शनैः। सम्यक्त्तवसिद्धतावस्था, हेत्वभावाच निष्क्रियाः ॥२१॥-अनु० ० तादात्म्येत्यादि। स आत्मा स्वभावो येषां ते तदात्मानः तद्भावस्तादात्म्य तस्मात् केवलज्ञानदर्शनस्वभावात् सदैव उपयुक्ताः क्षायिकसम्यक्त्वसिद्धतावस्थाः । हेस्वभावाच निष्क्रियाः क्रियापरिणाम प्रति न किश्चित् तेषामस्ति निमित्तमिति ॥२१॥ __भा०–ततोऽप्यूर्ध्वगतिस्तेषां, कस्मानास्तीति चेन्मतिः। धमास्तिकायस्याभावात् स हि हेतुगेंतेः परः ॥ २२ ॥ - टी-ततोऽप्यूर्ध्वमित्यादि । लोकान्तात् परतोपि गतिस्तेषां कस्मान भवतीति चेत् गतेहेंतुर्धर्मास्तिकायः परः--प्रधानमपेक्षाकारणं तदभावान्न परतो गतिः ॥ २२ ॥ भा०-संसारविषयातीतं, मुक्तानामव्ययं सुखम् । अव्याबाधमिति प्रोक्तं, परमं परमर्षिभिः ॥ २३ ॥ टी०-संसारेत्यादि । संसारविषयमतीतं मुक्तानां सुखमव्ययत्वाद् विगतव्यावा परम-प्रकृष्टं परमर्षिभिः-तीर्थकरादिभिरभिहितम् ॥ २३ ॥ भा-स्यादेतदशरीरस्य, जन्तोनष्टाष्टकर्मणः । कथं भवति मुक्तस्य, सुखमित्यत्र मे शृणु ॥ २४ ॥ टी०-स्यादेतदित्यादि। नष्टाष्टकर्मणो विगतयोगत्रयस्य कथमकरणस्त सुखसम्भव इत्यत्र मे शृणु ॥२४॥ भा०-लोके चतुबिहार्थेषु, सुखशब्दः प्रयुज्यते। विषये वेदनाभावे, विपाके मोक्ष एव च ॥ २५॥ री-लोके इत्यादि। प्रतीतिं दर्शयति । सुखे विषयः शब्दादिः तथा दुःखषेदनाया- . थाभावे, कर्मविपाके च सवेदनीयादिके । तथा सकलकर्मक्षयलक्षणे च मोक्षे॥२५॥ उदाहरणानि यथाक्रमं दर्शयतिभा०-सुखो वहिः सुखो । -विषयेष्विह कथ्यते। दुःखाभावे च पुरुषः, सुखितोऽस्मीति मन्यते ॥ २६ ॥ ०-सुखो वह्निरित्यादि । उदाहरणानि यथाक्रमं दर्शयति ॥ २६ ॥ भा-पुण्यकर्मविपाकाच्च, सुखमिष्टेन्द्रियार्थजम् । कर्मक्लेशविमोक्षाच, मोक्षे सुखमनुत्तमम् ॥ २७ ॥ दी०-पुण्यकर्मेत्यादि । गतार्थावेतौ श्लोकौ ॥ २७ ॥ १'संशृण' इति ग-पाठः । २ 'गतार्थावेव' इति ज-पाठः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004023
Book TitleTattvarthadhigam Sutram Part 02
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages396
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy