________________
१२ तत्वार्थाधिगममूत्रम्
[ अध्यायः १० स्ववशस्यानभिसन्धे-श्च तस्य न च विग्रहा गतिर्भवति । भवति हि विग्रहगमनं, कर्मवशस्यार्थिनश्चेह ॥ ५॥- आर्या अपि चानुश्रेणिगति--जीवानां चैव पुद्गलानां च । स्वाभाविकीष्यते ये-न तेनं सा विग्रहा सिद्धा ॥ ६॥--" सिद्धस्य गतिरयुक्ता, स्ववशत्वान्निःप्रयोजनत्वाच । नो सिद्धावयुक्ता, कर्मविमुक्तस्य निःपततः ॥७॥बन्धविमोक्षात् सङ्ग-त्यागात् पूर्वप्रयोगतो वाऽपि । ननु गच्छतोऽन्यवशता न च मुक्तोऽभीष्यते विवशः ॥ ८॥-" इत्येवं विप्रलापो--ऽस्पृष्टगतौ नान्तरास्ति यत्कालः । सत्यां हि सोत्तराव-स्थायां स्यात् सिद्ध इतरो वा ॥ ९॥-" मोऽस्पृष्टया हि गत्या--ऽनन्तरमेव समये जगच्छिखरम् । अवगाहतेतरां ते--न नास्ति ननु भो बजत्कालः ॥ १० ॥-" सिध्यति गत्वा ह्यात्मा, सिद्धिक्षेत्रेऽपहाय देहमिह ।। नह्यन्तराऽस्ति सिद्धि-- सिद्धिश्वास्ति मुक्तस्य ॥११॥-" ववशस्यानभिसन्धेः, कृतकृत्यस्य च यथा स्वभावेन।
तस्योपयोग इष्ट--स्तथा गतिः सा स्वभावेन ॥ १२ ॥" अथ यस्याः पृथिव्या उपरि मुक्तानामवस्थानं सा किंस्वरूपेत्याहभा०—तन्वी मनोज्ञा सुरभिः, पुण्या परमभास्वरा ।
प्रारभारा नाम वसुधा, लोकमूर्ध्नि व्यवस्थिता ॥१९॥-अनु० दी-तन्वीत्यादि । मध्ये योजनाष्टकबहला प्रदेशपरिहाण्या चोपर्युपरि मक्षिकापत्रात तनुतरा पर्यन्तेऽतितन्वी मनोज्ञेत्यन्तरुचिरा सुरभिः-इष्टगन्धा पुण्यवद्भिः पृथिवीकायिकैनिर्वर्तिता पुण्या भृशं भासनशीला प्रारभारेति नाम तस्याः। सा च लोकमूर्धनि व्यवस्थिता ॥ १९ ॥ भा०-नृलोकतुल्यविष्कम्भा, सितच्छत्रनिभा शुभा।
ऊर्ध्वं तस्याः क्षितेः सिद्धा, लोकान्ते समवस्थिताः ॥ २०॥ अनु० टी.-नृलोकेत्यादि । नृलोकेऽर्धतृतीयद्वीपा मानुषोत्तरमहीधरपरिक्षिप्ता तत्तुल्यविकम्भा, पश्चचत्वारिंशद्योजनलक्षविस्तरेत्यर्थः । उत्तानीकृतसितच्छन्त्रकाकृतिः शुभरूपाद्यात्मिका शुभा तस्याः क्षितरुपरि लोकान्तस्पृशां सिद्धानामवस्थानम् ॥२०॥
३ 'मो सिद्धता
१'स्याधिन' इति ज-पाठः। २ 'येन सेम (१) सा विग्रहा.' इति ज-पाठः। प्रजापति ग-पाठः। ४ 'भीष्यति' इति ज-पाठः। ५ 'सुरभिगन्धा ' इति ज-पाठः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org