________________
सूत्र ७ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् __ ३२१ भा०-अतस्तु गतिवैकृत्य-मेषां यदपलभ्यते ।
कर्मणः प्रतिघाताच, प्रयोगाच्च तदिष्यते ॥१५॥ टी०-अतस्त्वित्यादि । अस्मादुक्तप्रकारादन्यथा गतिवैकृत्यं यद् भवति गतिविकाररूपं तत् कर्मणः-क्रियायाः प्रतिघाताद् गिरिभित्त्यादेः प्रयोगाच पुरुषेच्छानुविधानादिष्यते सर्वम् ॥१५॥ मा०-अघस्तिर्यगोचं च, जीवानां कर्मजा गतिः।
ऊर्ध्वमेव तु तद्धर्मा, भवति क्षीणकर्मणाम् ॥१६॥-अनु० टी०-अध इत्यादि। सर्वतो गतिर्जीवानामधस्तिर्यगूर्व व कर्मजा गतिः। क्षीणकर्मणां तूर्ध्वमेव गतिस्तद्धर्मा सा स्वाभाविकी गतिधर्मो येषामिति ॥१६॥ मा०-द्रव्यस्य कर्मणो यब-दुत्पत्त्याऽऽरम्भ-वीतयः।
समं तथैव सिद्धस्य, गति-मोक्ष-भवक्षयाः ॥१७॥-अनु० टी०-द्रव्यस्येत्यादि । द्रव्यस्य-परमाण्वादेः कर्मणः-क्रियाया यथोत्पत्तिरारम्भो गतिश्च सम-युगपत् तथा सिद्धस्य गतिमोक्षभवक्षयाः गतिः मुक्तिर्मोक्षः-स्वात्मन्यवस्थानं भवक्षयो-जन्मक्षयः संसारक्षयो वेति ॥ १७॥ भा०-उत्पत्तिश्च विनाशश्च, प्रकाश-तमसोरिह।
युगपद् भवतो यवत्, तथा निर्वाण-कर्मणोः ॥१८॥-अनु० टी.-उत्पत्तिश्चेत्यादि । प्रकाश-तमसोर्यथा युगपदुत्पत्ति-विनाशौ । यस्मिन् काले प्रकाश उत्पद्यते तस्मिन्नेव काले तमसो विनाश इति युगपद् एवं निर्वाण कर्मक्षयधेत्येक एव कालः । तथाऽन्यत्राप्युक्तम्
सं ततो बन्धनमोक्षाचं जीवः प्रवेगतो याति । न त्वैरण्डकबीजं, बन्धनमुक्तं व्रजत्यूर्ध्वम् ॥१॥-आर्या सङ्गत्यागाद् वा लघु-रात्मा भूत्वा स उत्पतत्यूर्वम् । न तु गतलेपालाबू--रुदयाति जले निममापि ॥२॥-, ध्यानेन तथा चात्मा, प्रयोजितो येन स व्रजत्यूर्ध्वम् । तिष्ठासुरपि न शक्तः, प्रवेगितो ननु नरः स्थातुम् ॥ ३॥" अपि चामेखि गमनं, स्वाभाविकमूर्ध्वमात्मनस्तस्य । आत्मामिशिखाया गति-रन्या कर्मानिलवशाद्धि ॥ ४ ॥"
१'वचयः' इति ग-पाटः। २'उत्पत्तिरित्यादि ' इति च-ज-पाठः। ३ ‘स सततो' इति च-अ-पाठः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org