________________
३२४ तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः १० भा०--सुखप्रसुप्तवत् केचि-दिच्छन्ति परिनिर्वृतिम् ।
तदयुक्तं क्रियावत्त्वात्, सुखानुशयतस्तथा ॥ २८ ॥ टी०-सुखप्रसुप्तेत्यादि । शोभनेन स्वात्मनः सुखनिद्रया सुप्तवादिच्छन्ति निति तदेतदयुक्तं योगवत्त्वात् क्रियावत्त्वात् तथा सुखानुशयाच्च । अनुशयः प्रकर्षापकर्षत्वम् ।। भा० -श्रम-क्लम-मद-व्याधि-मदनेभ्यश्च सम्भवात् ।
मोहोत्पत्तेर्विपाकाच, दर्शननस्य कर्मणः ॥२९॥ टी-श्रमेत्यादि । श्रमः-खेदः क्लमो-ग्लानिः मदो-मद्यपानादिजनितः व्याधिःज्वरादि: मदन:-कामसेवन एभ्यश्च सुखापसुप्तत्वस्य सम्भवात् रत्यरतिभयशोकादिको मोहस्तस्माच सुप्तत्वसम्भवः । दर्शननं-दर्शनावरणकर्म तस्य विपाकात्-उदयात् सुखप्रसुप्तत्वमिति । न चैतानि कारणानि मुक्तानां सम्भवन्ति ॥ २९ ॥ भा०-लोके तत्सदृशो ह्यर्थः, कृत्स्नेऽप्यन्यो न विद्यते।
उपगीयेत तद् येन, तस्मानिरुपमं सुखम् ॥३०॥ टी-लोके इत्यादि । मोक्षसुखसदृशोऽर्थः सकलेऽपि लोके न कचिदस्ति ततोऽनुपम तत् ॥ भा०-लिङ्गप्रसिद्धेः प्रामाण्या-दनुमानोपमानयोः।
अत्यन्तं चाप्रसिद्धं तद, यत् तेनानुपमं स्मृतम् ॥३१॥ टी-लिङ्गेत्यादि । नाप्युपमानं तत्र क्रमते सादृश्याभावात् । सादृश्याख्य लिङ्गं नास्ति मोक्षसुखस्य । नाप्यनुमानस्य मुक्तिसुखं गोचरीभवति । यस्मात्तस्य प्रामाण्यं लिङ्गप्रसिद्धेः कारणात् । पक्षधर्मान्वयव्यतिरेक्येव लिङ्गम् । न चास्ति तादृशो मोक्षसुखप्रतिपत्तावित्यतो नाप्यनुमेयम् ॥ ३१॥ भा०-प्रत्यक्षं तद्भगवता-महतां तैश्चै भाषितम् ।।
गृह्यतेऽस्तीत्यतः प्राज्ञै-नै छद्मस्थपरीक्षया ॥३२॥ इति टी-प्रत्यक्षमित्यादि । अर्हता-सर्वज्ञानामेव तत् प्रत्यक्षं प्रत्यक्षीकृत्य च तैर्यथावद् भाषित-व्यपेतरागद्वेषमोहैः श्रद्धेयवाक्यैः सर्वज्ञेरेव तदाख्यातम् । अतः सर्वज्ञप्रणीतागमप्रामाण्यात् तदस्तीति गृह्यते। प्रज्ञाऽसामर्थ्यान्न छद्मस्थपरीक्षया आगमव्यतिरिक्तैश्च छअस्थप्रत्यक्षादिभिः परीक्ष्यमाणं न जातुचिदुपलभ्यत इति ॥ ३२ ॥
एवमनुपममव्यावाधं च शाश्वतं स्वाभाविकं मुक्तिसुखमनुभवति क्षपितसकलकर्मजालः । १उपनीयते ' इति ग-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org