________________
सूत्र १६ ]
स्वोपज्ञभाष्य टीकालङ्कृतम् न्येष व्रतानि शिक्षापदव्रतानीति । गुणव्रतानि तु न प्रतिदिवसग्राह्याणि, किन्तु सकृद्ग्रहणान्येव । गुण्यन्ते-संख्यायन्त इति गुणा दिगादयः। दिशोऽपरिमाणाः पूर्वादिका दश, तासामिष्टसंख्यावच्छेदेन परतः प्रत्याख्यानमातिष्ठते । एवमुपभोगपरिभोगं परिमितसंख्यया परिमाणेऽवस्थापयति । शेषं प्रत्याचष्टे । तथाऽनर्थदण्डमुपभोगमात्रव्यतिरिक्तस्य सकलस्य निवतिमभ्युपैति, परिगणयतो गुणव्रतसंख्या, एवमेतानि शिक्षावतादीनि देशकालावस्थापेक्षाणि शीलमुत्तरगुणाख्यानि अणुव्रतपरिवृद्धयर्थमेव भावनीयानीति ॥
भा०-एभिश्च दिग्वतादिभिरुत्तरव्रतैः सम्पन्नोऽगारी व्रती दिग्वतव्याख्या भवति । तत्र दिग्व्रतं नाम तिर्यगूर्वमेधो दशानां दिशां
यथाशक्ति गमनपरिमाणाभिग्रहः ॥ टी-एभिश्चेत्यादि भाष्यम् । एभिरिति दिगादिवतैः । आदिग्रहणात् शिक्षापदव्रतैः चशब्दादणुव्रतैश्च सम्पन्नोऽगारी व्रती भवतीति । कानि पुनस्तानि दिगादिव्रता नीत्याह-तत्र दिग्व्रतं नामेत्यादि । तत्र-तेषत्तरगुणेषु सप्तसु दिव्रतं नाम, दिशोऽनेकप्रकाराः शास्त्रेऽभिहिताः । तत्र सूर्योपलक्षिता पूर्वा शेषाश्च पूर्वदक्षिणादिकाः तदनुक्रमेण, दिशा सम्बन्धि दिक्षु वा प्रतम्-एतावत्सु पूर्वादिदिग्भागेषु मया गमनाउनुष्ठेयं, न परत इति । नामशब्दो वाक्यालङ्कारार्थः । एतदेव स्पष्टतरं विकृणोति-तिर्यगूर्वमित्यादिना । तिर्यगिति पूर्वादिका दिशोऽष्टौ निर्दिष्टाः, ऊर्ध्वमिति नवमी दिक, अध इति दशमी। एवमासा पशानां दिशां यथाशक्ति गमनपरिमाणाभिग्रह इति । यथाशक्तीति यथासामध्ये कायापेक्षया गमिक्रियादिपरिमाणम्-एतावती दिक् पूर्वेणावगाहनीया, एतावती च पूर्वदक्षिणेनेत्यादि । अभिग्रहोऽभिमुखं ग्रहणम् । आभिमुख्यं तु निश्चित्य ज्ञानेन गुणदोषाविति गृह्णाति ।
ततः को गुणोऽवाप्यत इत्याहभा०-तत्परतश्च सर्वभूतेष्वर्थतोऽनयंतच सर्वसावध(योग)निक्षेपः ।
टी-तत्परतधेत्यादि । गुणमुपदर्शयति प्रष्टुः । चशब्दः क्रमावद्योतनार्थः । तसाद-गमनपरिमाणात् परतः सर्वभूतेषु-स्थावरजङ्गमाख्येषु पृथिव्यादिद्वीन्द्रियादिषु अर्थ:-प्रयोजनमतिशयोपकारि, सत्यपि तस्मिन् न तत्र गमनाद्यनुतिष्ठति, अतस्तत्रत्यभू. तानामनुपमर्दः । अर्थतोऽनयंतश्चेति । चशब्दः समुच्चये । अनर्थोऽप्रयोजनं विना प्रयोजनेन सूखननोलिखनजलावगाहवनस्पतिच्छेदककलासादिव्यापादनादिरनेकविधः । स एष सर्व:
शक्तिपरिणामा ' इति पाठः ।
१.पातः' इति -पाठः। २ मधो वा दशाना ' इति घ-पाठः। "शयोककाति' इति -पाठः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org