________________
तत्त्वार्थाधिगमसूत्रम्
[अध्यायः ७ साषयः-सपापो योगो-व्यापारः कायादिकः तेन चैवपरिमाणात् परतो निवृत्तेन निक्षिप्तोनिरस्तो भवतीति महती गुंणावाप्तिः ॥ सम्प्रति क्रमनिर्दिष्टं देशव्रतमुच्यते-अत्राह-वक्ष्यति भवान् देशवतम् । पारमार्षवच
नक्रमः कैमर्थ्याद भिन्नः सूत्रकारेण १ । आर्षे तु गुणव्रतानि क्रमेणाकमभेदे हेतुः दिश्य शिक्षावतान्युपदिष्टानि, सूत्रकारेण त्वन्यथा । तत्रायमभिप्राय:
पूर्वतो योजनशतपरिमितं गमनममिगृहीतम् । न चास्ति सम्भवो यत् प्रतिदिवसं तावती दिगवगाह्या, ततस्तदनन्तरमेवोपदिष्टं देशव्रतमिति देशे-भागेऽवस्थानं प्रतिदिनं प्रतिप्रहरं प्रतिक्षणमिति देशव्रतमिति सुखावबोधार्थमन्यथा क्रमः ॥ सम्प्रति भाष्येण स्पष्टयत्येनमेवार्थम्
भा०-देशवतं नाम अपवरकगृहग्रामसीमादिषु यथाशक्ति देशवतव्याख्या प्रविचाराय परिमाणाभिग्रहः । तत्परतश्च सर्वसावधयोग
निक्षेपः ॥ दी०-देशव्रतं नामेत्यादि । दिक्परिमाणस्यैकदेवो देशः तद्विषयं व्रतं देशवतंदेशनियमः । तच प्रयोजनापेक्षमेकादिदिकं सर्वदिकं वा । नामशब्दो वाक्यभूषार्थः । देशनिरूपणार्थमाह-अपवरकेत्यादि । अपवरको विशिष्ट एव गृहैकदेशः तत्रैव नियमःप्रदोषादिकाले आ प्रभातसमयादाक् न मया निर्गन्तव्यममुतो देशाद् अन्यत्रानाभोगादिभ्यः इति । एवं कुख्यमर्यादावच्छिन्नाद् गृहात् तथा प्रत्तिपरिक्षेपावच्छिन्नाद् ग्रामात् सीमावच्छेदाच । आदिग्रहणं नगरखेटखेवेटविषयखण्डजनपदार्थम् । एतच्च प्रदर्शनमात्रम् । एवं च यत्र देशे यावन्तं कालमिच्छति स्थातुं विहर्तुं च तत्र विवक्षितदेशात् परतो निवृत्तिरित्येवमस्यैवार्थस्य प्रतिपादनार्थमिदमाह-यथाशक्तीत्यादि । यथाशक्तीति करणापेक्षया यावति देशे प्रविचारो-गमनादिक्रिया समस्ति गृहिणस्तदर्थः परिमाणाभिग्रहः प्रविचारनियमार्थ इतियावत् । ततश्च तत्परतः प्रविचारजनितः स्थूलसूक्ष्मभूतग्रामोपमर्दपरिहारः कुतो भवतीति दर्शयति-तत्परतश्चेत्यादिना पार व्याख्यातार्थमेतद् भाष्यमिति ॥
भा०-अनर्थदण्डो माम उपभोगपरिभोगावस्यागारिणो अनर्थदण्डव्याच्या अतिनोऽर्थः । तद्व्यतिरिक्तोऽनर्थः । तदर्थो दण्डोऽनर्थदण्डः ।
तबिरतिव्रतम् ॥
'गेहात् ' इति ग-पाठः । २ 'कर्पट ' इति उ-पाठः, 'कट' इति तु क-पाठः। ३ वा तत्र' इति --पाठः। ४ 'सूक्ष्मस्थूलभूत' इति -पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org