________________
सूत्रं १६ ]
स्वोपज्ञभाष्य–टीकालङ्कृतम्
९१
टी. - अनर्थदण्डो नामेत्यादि । अर्थः- प्रयोजनं गृहस्थस्य क्षेत्र - वास्तु-धन- शरीरपरिजनादिविषयस्तदर्थ आरम्भो - भूतोपमर्दोऽर्थदण्डः । दण्डो निग्रहो यातना विनाशनमिति पर्यायाः । अर्थेन - प्रयोजनेन दण्डोऽर्थदण्डः । स चैष भूतविषय उपमर्दलक्षणो दण्डः क्षेत्रादिप्रयोअनमपेक्षमाणोऽर्थदण्ड उच्यते । तद्विपरीतोऽनर्थदण्डः प्रयोजननिरपेक्षः, अनर्थोऽप्रयोजनमनुपयोग निष्कारणता विनैव कारणेन भूतानि दण्डयति, यथा शतधारकुठारेण प्रकृष्टस्तरुरुकन्धशाखादिषु प्रहरति । कृकलास पिपीलिकादीन् व्यापादयति कृतसङ्कल्पः । न च तद्व्यापादने किश्चिदतिशयोपकारि प्रयोजनमस्ति येन विना गार्हस्थ्यं प्रतिपालयितुं न शक्यते, सोऽयमनर्थदण्डः पापादानहेतुरिति प्रेक्षापूर्वकारिणा प्रोज्झ्यः । नामशब्दः पूर्ववत् । अनर्थदण्डस्वरूपनिरूपणायाह – उपभोगेत्यादि । उपभुज्यत इत्युपभोगः । उपशब्दः सकृदर्थे । सकृद् भोग उपभोगः पुष्पाहारादेः । अथवाऽन्तर्भोग उपभोग आहारादिः । अत्रान्तर्वचन उपशब्दः । परिभुज्यत इति परिभोगः । परिशब्दोऽभ्यावृत्तौ वर्तते । पुनः पुनर्भोगो वा वस्त्रगन्धमाल्यालङ्कारादेः । समासतः सर्वमुपयुज्यमानं शरीरादी नामगारिणो व्रतिन उपकारकोऽर्थः तस्मादुपकारकादर्थाद् व्यतिरिक्तोऽनुपकारकत्वात् अनर्थः तदर्थ इत्यनुपकारको योऽर्थः तदर्थो दण्डो भूतोपमर्दलक्षणोऽनर्थदण्डः धर्मार्थकाममोक्षाणामन्यतमस्याप्यभावात्, अतस्तस्माद् विरतिर्व्रतमगारिणो भवति ॥ ननु च व्रतग्रहणाद् विरविंशब्दार्थो गम्यत एव, किमर्थ विरतिग्रहणम् १ | उच्यते - परिजिहीर्षत आंदराधानार्थं, दण्डप्रवृत्तो हि निष्कारणमेव पापमुपादत्ते । दूरतश्चायमत आदृतः कथं नाम परिहरेदिति विरतिग्रहणम् ॥
सामायिलक्षणम् भा० - सामायिकं नामाभिगृह्य कालं सर्व सावद्ययोग
निक्षेपः ॥
टी. - सामायिकं नामेत्यादि । सामायिकमिति समो - रागद्वेषवियुक्तो यः सर्वभूतान्यात्मवत् पश्यति, आयो - लाभः - प्राप्तिः । समस्यायः समायः प्रतिक्षणमपूर्वापूर्वज्ञानदर्शनचरणपर्यायैर्युज्यते स एवं समायः प्रयोजनमस्य क्रियानुष्ठानस्येति सामायिकम् । समाय एव वा सामायिकम् । नामशब्दोऽलङ्कारार्थः । अभिगृह्य कालमिति कालं नियम्य यावत् चैत्यानि पर्युपासे साधून वा अन्यद् वा किञ्चिदुपलक्षणमास्थाय कालस्य गोदोहादि स्थिरतरचित्तवृत्तिर्गृहपौषधशालादिषु निर्व्यापारः सन् सर्वत्र सामायिकमातिष्ठति, अमुना विधानेन करोमि भदन्त ! सामायिकं द्विविधं त्रिविधेनेति । प्रतिपद्य चैवं ततचैत्यादि पर्यु - पास्ते । निक्षिप्तसावद्ययोगः । अवद्यं - गर्हितं पापम् । सहावद्येन सावद्यः योगो - व्यापारः कायिकादिस्तस्य सावद्यव्यापारस्य निक्षेपः- परित्यागः प्रोज्झनं न करोमि न कारयामि मनोवाक्कायैरिति भावस्तद्विशेषणम् । सर्वशब्दः प्रकृत विकल्पापेक्षया, अतः सर्व सावद्य योग
' आराधनार्थं ' इति ङ-पाठः । २ ' प्रतिक्षापू' इति ङ-पादः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org