________________
सूत्र ११]
स्वोपज्ञभाष्य-टीकालङ्कृतम्
भा०-अत्राह-उक्तं भवता ( अ० ६, सू० ५ ) सकषायाकषाययोर्योगः साम्परायिकेर्या पथयो रास्रव इति । साम्परायिकं चाष्टविधं वक्ष्यते ( अ० ६, सू० २८ ) । तत् किं सर्वस्याविशिष्ट आस्रव आहोस्वित् प्रतिविशेषोऽस्तीति । । अत्रोच्यते - सत्यपि योगत्वाविशेषे प्रकृतिं प्राप्यासवविशेषो भवति । तद्यथा
टी० - अत्राह-उक्तं भवतेत्यादिना सम्बन्धमाचष्टे । अत्र सामान्यास्रव विचारे भवतोक्तम् । किमुक्तमिति उक्तस्यानुवादं करोति - सकषायाकषाययोर्यन्धकयोर्योगःकायादिव्यापारो यथासंख्यं साम्परायिकेर्यापथयोः कर्मणोरास्रवो भवति । इतिशब्द एवशब्दार्थे । एवमुक्तं भवतेति । साम्परायिकं चाष्टविधं ज्ञानावरणादिभेदेनाभिधास्यते कर्म जातिभेदेन । एवं सति फलभेददर्शनात् सन्देहबीजसम्भवः । तस्मात् प्रष्टव्यम् - किं सर्वस्य ज्ञानावरणादेरष्टविधस्यापि कस्यापि कायादियोगोऽविशिष्टः - सामान्यलक्षण आस्रव आहोस्वित् प्रतिविशेषो - भेदः कर्म प्रति कश्चिदस्तीति । इतिकरणं प्रश्नेयत्तां दर्शयति । अत्रोच्यते इत्याहाचार्यः । अस्ति भेद इति संगिरामहे । योगसामान्येनाभेदे भवत्यपि योगसामान्येनैकरूपपुद्गलग्रहणे सति वक्ष्यमाणास्रवविशेषैः कर्मजातेः फलभेदः, यथा आहारः कश्चिदेकरूपोऽपि जग्धः प्राप्य जठरं रस- रुधिर - मांस- मेदो-मज्जा-स्थि-शुक्र-मलविशेषभावेन परिणमते, तथैकप्रयोगचितेऽस्य कर्मण आस्रवभेदसम्भवे सति अष्टधा परिणामः प्रकृर्ति प्राप्येति । प्रकृतिः - स्वभावः । किञ्चित् कर्म ज्ञानावरणस्वभावं किञ्चिद् दर्शनावरणस्वभावं इत्येवमष्टविधमपि भिन्नस्वभावं वक्ष्यते, अतः प्रकृतिमाश्रित्य आस्रवभेदः । तद्यथेत्यनेन तथास्स्रवभेदं प्रति प्रकृतिं प्रत्यक्षीकरोति । नाप्यक्रमन्यस्तयोस्तावदाद्ययोः प्रकृत्योरास्रवभेदः ।
२३
सूत्रम् - तत्प्रदोषनिह्नवमात्सर्यान्तरायासादनोपघाता ज्ञानदर्शनावरणयोः ।। ६-११ ॥
-
टी० - प्रदोषादयः कृतद्वन्द्वा अपि तच्छब्देन सह विहितषष्ठीतत्पुरुषसमासाः सूत्रकृता निर्दिष्टाः । तयोः प्रदोषादय इति सामान्येनाभिनिर्वृत्ते समासे पश्चादिदमुच्यते - तयोरिति कयोः प्रदोषादय आस्रवा इत्याह- ज्ञानदर्शनावरणयोरिति । ज्ञानं च दर्शनं च ज्ञानदर्शने, आवरणम् - आच्छादनं ज्ञानदर्शनावरणयोरिति । एनमेवार्थ भाष्येण स्पष्टयति
Jain Education International
भा०-- आस्रवो ज्ञानस्य ज्ञानवतां ज्ञानसाधनानां च प्रदोषो निह्नवो ज्ञानावरणीयकर्मण मात्सर्यम् अनन्तराय आसादनं उपघात इति ज्ञानावरणास्रवा भवन्ति । एतैर्हि ज्ञानावरणकर्म बध्यते । एवमेव दर्शनावरणस्येति ॥ ११ ॥
आस्रवाः
१ 'भरणस्याखवा' इति घ-पाठः ।
For Personal & Private Use Only
www.jainelibrary.org