________________
तस्वार्याधिगमसूत्रम्
[ अध्यायः ६ छेधजलकर्मभूकर्मपरिग्रहः । शस्त्रमप्यनेकाकारमाख्यातं कृपाणादि । वधस्थानता मूलगुणनिर्वर्तनाधिकरणं, तीक्ष्णतोज्ज्वलताद्युत्तरगुणाधिकरणमिति ॥
अधुना निक्षेपाधिकरणस्वरूपनिर्धारणायाह
मा०-निक्षेपाधिकरणं चतुर्विधम् । तद्यथा-अप्रत्यवेक्षितनिक्षेपाधिकरण दुष्प्रमार्जितनिक्षेपाधिकरणं सहसानिक्षेपाधिकरणं अनाभोगनिक्षेपाधिकरणमिति ॥
टी–निक्षेपाधिकरणं चतुर्विधमित्यादि । तद्यथेत्यादिना चतुरः प्रकारानादर्शयति। अप्रत्यवेक्षिते-चक्षुषाऽनिरीक्षिते भूप्रदेशे निक्षेप्यस्य दण्डकादेः स्थापनमधिकरणं, प्रत्यवेक्षितेऽपि भूप्रदेश दुष्प्रमार्जिते रजोहरणेनाप्रमार्जिते वा निक्षेपोऽधिकरणं भवति । सुप्रमार्जितं त्वेकतस्त्रिरिति । तद्विपरीतं दुष्प्रमार्जितम् । सहसेति शक्त्यभावाच्चेतयतोऽप्यप्रत्यवेक्षितदुष्प्रमार्जितदेशे निक्षेपोऽधिकरणस्येतरोऽपि सहसा निक्षिपतः, अनाभोगोऽत्यन्तविस्मृतिः, नहीदं स्मरति प्रत्यवेक्षिते सुप्रमार्जिते च देशे निक्षेप्तव्यम् , तथाविधस्य निक्षेपोऽधिकरणमिति ॥
इदानीं संयोगाधिकरणद्वैविध्यमिति प्रदर्शनायाह
भा०-संयोगाधिकरणं विविधम्-भक्तपानसंयोजनाधिकरण उपकरणसंयोजनाधिकरणं च।
टी-संयोगाधिकरणं विविधमित्यादि । तत्र भक्तमशनखाद्यस्वाधभेदाद विधा । तस्य संयोजनं पात्रे मुखे वा व्यञ्जनगुडोपदंशफलशाकादिना सह, तथा द्राक्षादाडिमपानकाद्यपि प्रासुकजलारनालादि च खण्डशर्करामरिचादिमिः, ए[व]तद्भक्तपानसंयोजनाधिकरणम् , उपकरणसंयोजनाधिकरणम् । __ सम्प्रति निसर्गाधिकरणत्रैविध्यप्रतिपादनायाह
मा०—निसर्गाधिकरणं त्रिविधम्-कायनिसर्गाधिकरणं वानिसर्गाषिकरणं मनोनिसर्गाधिकरणमिति ॥ १० ॥
टी-निसर्गाधिकरणमित्यादि । कायः-शरीरमौदारिकादिभेदं तस्य निसर्गोन्यायापेतमुज्झनमविधिना स्वच्छन्दत इतियावत् । शस्त्रपाटनामिजलप्रवेशोद्वन्धनादिमिः । वाचोऽपि त्यागः-प्रेरणं शास्त्रोपदेशाहते । मनसश्चेति । अत्र बहियापारापेक्षया शरीरादीनामजीवनिसर्गाधिकरणत्वमुक्तम् । जीवाधिकरणे चात्मनः परिस्पन्दोऽन्तःपरिणामो योगः। मूलगुणनिवर्तनाधिकरणेऽवस्थानमात्रमेषामिति विशेषः ॥१०॥
देशनिशेपा०' इत्यपि पाठः । अस्य व्याख्या किं न कृतेति प्रश्नः । ३ ‘च संस्थान• ' इति ग-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org