________________
सूत्रः १०.]
स्वोपज्ञभाष्य-टीकालङ्कृतम्
भा०—त निर्वर्तनाधिकरणं द्विविधम्- मूलगुणनिर्वर्तनाधिकरणमुत्तरगुणनिर्वर्तनाधिकरणं च । तत्र मूलगुणनिर्वर्तना पञ्च शरीराणि वाङ्मनः प्राणापानाश्च । उत्तरगुणनिर्वर्तना काष्ठपुस्तचित्रकर्मादीनि ॥
टी० - तत्रेत्यादि । तत्र तेषु निर्वर्तनादिषु निर्वर्तना तावद् व्याख्यायते । निर्वर्तनैवाधिकरणं निर्वर्तनाधिकरणम् । अधिकरणमिति समानाधिकरणः, भावसाधनपक्षे षष्ठीतत्पुरुषःनिर्वर्तनाया अधिकरणम् । एवमन्यत्रापि योज्यम् । तद् द्विविधं - द्विप्रकारम् । प्रकारद्वयप्रदर्शनार्थमाह- मूलगुणेत्यादि । चशब्दः समुच्चये । मूलं चासौ गुणश्च मूलगुणः । मूलमाद्यं प्रतिष्ठा संस्थानाख्यो गुणो मूलगुणः स एव निर्वर्तनाधिकरणम् । स हि निर्वृत्तः सन् अधिकरणीभवति कर्मपधस्य । तथाऽङ्गोपाङ्गसंस्थानमृद्वादितैक्ष्ण्यादिरुत्तरगुणः सोऽपि निर्वृत्तः सन्नधिकरणीभवति कर्मबन्धस्योत्तरगुण एव निर्वर्तनाधिकरणम् । तत्र मूलगुणनिर्वर्तना - पश्च शरीराणीत्यत्राधिकरणशब्दो नोदितो भाष्यकृता लाघवैषिणा । अनुक्तोऽपि च प्रत्यासत्तेर्गम्यते, अतो मूलगुणनिर्वर्तनाधिकरणम् । औदारिकादीनि पञ्च शरीराणि । तानि च द्वितीयाध्याये व्याख्यातानि प्रकृतवस्तुनि योज्यन्ते । औदारिकशरीरवर्गणाप्रायोग्यद्रव्यैर्निर्मापितमौदारिकशरीरसंस्थानं प्रथमसमयादारभ्य मूलगुणनिर्वर्तनाधिकरणमात्मनो भवति, बन्धनिमित्तत्वात् । उत्तरगुणनिर्वर्तनाधिकरणमौदारिकस्याङ्गोपाङ्गसृजाकर्णवेधावयवसंस्थानादि ।
निर्वर्तनाधिकरणस्य वैक्रियस्यापि वपुषः स्ववर्गणाप्रायोग्यद्रव्यनिर्मापितमादिसमयादारभ्य स्वरूपम् संस्थानं मूलगुणनिर्वर्तनाधिकरणम्, अस्य तूत्तरगुण निर्वर्तनाधिकरणमङ्गोपाङ्गकेशदशननखादिकगू, आहारकशरीरस्यापि स्ववर्गणायोग्यपुद्गलद्रम्यनिर्मापितं संस्थानं मूलगुण निर्वर्तनाधिकरणम्, उत्तरगुणनिर्वर्तनाधिकरणमङ्गोपाङ्गःदि, कार्मसङ्घातलक्षणस्य कार्मणस्यापि तद्योग्यद्रव्यनिर्मापितस्वसंस्थानं मूलगुणनिर्वर्तनाधिकरणम्, उत्त रगुणनिर्वर्तनाधिकरणमस्य नास्त्येव, तैजसस्याप्युष्णलक्षणस्याशितपीतपावकशक्तिभाजो लब्धिप्रत्ययस्य च पेरनिग्रहानुग्रहकारिणः स्ववर्गणानिर्मापितसंस्थानं मूलगुणनिर्वर्तनाधिकरणम्, अस्याप्युत्तरगुणनिर्वर्तना नैवास्तीति ॥ वाङ्मनः प्राणापानाश्चेति । चशब्दान्मूलगुणनिर्वर्तनाभिसंबन्धः । वाङ्मनोवर्गणायोग्यद्रव्यनिर्मापितौ वाङ्मनः संस्थानविशेषौ मूलगुणनिवर्तनाधिकरणम् । तथा प्राणापान वर्गणायोग्य निर्मापितौ उच्छास निश्वासाकारौ मूलगुण निर्वर्तनाधिकरणम् । एषामप्युत्तरगुणनिर्वर्तना न सम्भवत्येवेति । मूलगुणनिर्वर्तनाधिकरण मित्थं व्याख्याय प्रकारान्तरेणोत्तरगुणनिर्वर्तनामाचिख्यासुराह - काष्ठपुस्तचित्रकर्मादीनीति । कर्मशब्दः प्रत्येकमभिसम्बध्यते । तत्र काष्ठकर्म कुट्टिमपुरुषादीनां कृतिः, अत एवोत्तरगुणनिर्वर्तनोच्यते । प्रसिद्धपुरुषाद्याकृतेः प्रतिबिम्ब निर्वर्तनादेव पुस्तचित्रकर्मणी अपि वाच्यम् । पुस्तकर्म सूत्रचीवरकादिग्रथितकृत्रिमपुत्रकादिकं, चित्रकर्मात्यन्तप्रसिद्धम् । आदिग्रहणात् लेप्यपत्र
१' परितो गृहानु• ' इति सग-पाठः ।
,
२१
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org