________________
तत्त्वार्याधिगमसूत्रम्
[अन्यायः ६ मा०-अत्राह-अथाजीवाधिकरणं किंमिति १ । अनोच्यते___टी-अत्राहेत्यादिना सम्बन्ध प्रतिपादयति । अत्रेति जीवाधिकरणव्याख्यानावसाने परोऽनवबुध्यमान आह-अथाजीवाधिकरणं किमिति । अथेत्यानन्तर्यार्थः। जीवाधिकरणादनन्तरमजीवाधिकरणं प्राक् निरदेशि सूत्रकारेण तत् किमिति-किंस्वरूपं-किस्वभावं तत ? । इतिकरणः प्रश्नेयत्ताप्रतिपादनार्थः । एवं प्रश्ने अत्रोच्यते इत्याहाचार्यः । अत्र प्रश्नेऽनुरूपमुत्तरमभिधीयतेसूत्रम्-निर्वर्तनानिक्षेपसंयोगनिसर्गा दिचतुर्दित्रिभेदाः परम् ॥ १०॥
री-निर्वर्तनादयः कृतद्वन्द्वा यथाक्रमं कृतद्वन्द्वैरेव न्यादिभिः समानाधिकरणा द्रष्टव्याः । अधिकरणमित्यनुवर्तते, तत् परमित्यनेनाभिसम्बध्यतेऽजीवाधिकरणं, तन्निवते.
'नादिभेदाच्चतुर्धा अजीवविषयान् निर्वर्तनानिक्षेपसंयोगनिसर्गान् कुर्वन निर्वर्तनादीनां व्याख्या रागद्वेषवानात्मा साम्परायिकं कर्म बनाति, निर्वय॑मानमजीवद्रव्यम् ।
निर्वर्तना निवर्त्यमानप्रयोजना । 'निर्वयेति भावसाधनो वा । सा द्विधा मलोत्तरगुणभेदात् । निक्षिप्यतेऽऽसाविति निक्षेपः-स्थाप्यः कश्चिदजीव एव। स चतुर्विघोऽप्रत्यवेक्षितादिभेदात्। भावसाधनो वा। संयोजनं संयोगः एकत्वीकरणं वा मिश्रणम् । तद् वेधा आहारोपकरणभेदात, निसर्जनं निसर्गः त्यागः उज्झनम् । तत् त्रिधा कायादिभेदात् । परवचनमनर्थक पूर्वाधवचनात् , अस्मिन् वा सति आद्यवचनमनर्थकं अर्थापत्तिसिद्धेरितिघेत तन्न। अन्तरङ्गताप्रतिपादनार्थत्वात् आद्यशब्दस्य बहिरङ्गताप्रतिपादनार्थत्वाच्च परशब्दस्येति विशिष्टार्थप्रतिपत्तिहेतुत्वादुभयं न्याय्यमित्यमुमेवार्थ भाष्येण स्पष्टयति
भा०-परमिति सूत्रक्रमप्रामाण्यादजीवाधिकरणमाह । तत् समासतम्बतुर्विधम् । तद्यथा-निर्वर्तना निक्षेपः संयोगो निसर्ग इति ।
टी-परं बहिरङ्गम्, इतिकरणशब्द: पदार्थकः । प्रतिविशिष्टपुरुषप्रणीतसूत्रक्रमस्य प्रमाणत्वात् परं-बहिरङ्गमप्रधानमजीवाधिकरणमाह। जीवपरिणामोऽभ्यन्तरङ्गस्तदायत्तत्वात कर्मबन्धस्य, निमित्तमात्रत्वाद् बहिरङ्गमजीवाधिकरणम् । इष्टाभिधायी वा परशब्दः । प्रायोगिका वैस्रमा वा निर्वर्तनादयोऽध्यवसेयाः । आयं च जीवविषयत्वाद् भावाधिकरणमुक्तं फर्मबन्धहेतुर्मुख्यतः। इदं तु द्रव्याधिकरणमुच्यते । परम्-अमुख्यं निमित्तमात्रत्वात् । तदजीवाधिकरणं समासतः-संक्षेपतः चतुष्प्रकारं भवति । समासग्रहणान्मृलोत्तरगुणादिभेदःशरीरादिः शस्त्रकल्पश्च व्यामः मूक्ष्मप्रभेद आपादितो भवति ।। तद्ययेत्यादिना चतुरो विकरमान् स्वरूपतः पटति-निर्वतेनेत्यादि । इतिकरणो मूलभेदेयत्ताप्रतिपादनार्थः। प्राग् व्याख्याताः शब्दनिभेदद्वारेण निर्वर्तनादयः । अधुना भेदद्वारेण स्वरूपकथनमेषां क्रियते
•षया निर्वर्तनानिक्षेपसंयोगनिसांनि कुर्वन्' इति ग-पाठः । १ निर्वतेवेति' इति ग-पाठः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org