SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ सूत्र ९] स्वोपज्ञभाष्य-टीकालङ्कृतम् पुनरावर्तनीयः । ततश्च द्वितीया षट्त्रिंशत् लभ्यते । तथा क्रोधकारितकायारम्भ इत्यप्यभ्यावर्तमाने ग्रन्थे षट् त्रिंशदेव विकल्पानां प्राप्यते । एवमेषा षट्त्रिंशत् त्रिप्रकाराऽपि पिण्डिताऽष्टोत्तरं परिणामशतं भवतीत्येतदेवोपसंजिहीर्षन् दर्शयति--- भा० – तदेवं जीवाधिकरणं समासेनैकशः षट् त्रिंशद्विकल्पं जीवाधिकरस्य भवति । त्रिविधमप्यष्टोत्तरशतविकल्पं भवतीति ॥ विकल्पसङ्ख्या संरम्भः संकल्पः, परितापनया भवेत् समारम्भः । प्रणवस्त्वारम्भः, त्रिविधो योगस्ततो ज्ञेयः ॥ ९ ॥ १९ कृत कारित अनुमत * डी० —तदेवं जीवाधिकरणं समासेनेत्यादि यत् प्रस्तुतं जीवाधिकरणं तदेवं समासेन - संक्षेपेण एकैकं संरम्भाधिकरणं समारम्भाधिकरणं आरम्भाधिकरणं च षट्त्रिंशद्विकल्पं भवति । त्रिविधमपीति समुच्चयेऽपिशब्दः । तिस्रोऽपि षट्त्रिंशतः शतमष्टोत्तरं विकल्पानां भवतीति भाष्यानुसारणमवसायैव सूत्र एव स्फुटीकरणाय पुनरुच्यते, संरम्भादीनां कषायावसानानामाहितद्वन्द्वानां विशेषशब्देन समानाधिकरणस्तत्पुरुषः षष्ठीसमासो वा प्रत्येकं वा विशेषशब्देनाभिसंबन्धसामर्थ्यात् संरम्भादिविशेषै रिति तृतीयानुपपत्तिः क्रियावादिपदार्थान्तराभावात्, न वाक्यशेषोपपत्तेः प्रविश पिण्डीमिति यथा तथेहापि क्रियापदावधारणमेकैकं मिद्यात्, एकमेकं त्रींस्त्रीन् भेदान् कुर्यादिति वा, योगादीनामानुपूर्व्यवचनं पूर्वापर विशेषणत्वात् । तस्मात् क्रोधादिचतुष्टयकृतकारितानुमतभेदात् कायादीनां संरम्भसमा- कृतकारितादि यन्त्रम् । रम्भविशेषाः षट्त्रिंशद् विकल्पाः स्फुटीक्रियन्ते यन्त्रेण । उद्धृतक्रोधप- काय कषाय रिणाम आत्मा करोति स्वयं कायेन संरम्भमिति प्रथम विकल्पः । तथा आविर्भूतमानपरिणाम आत्मा करोति स्वयं कायेनेति द्वितीयः । तथोपजातमायापरिणतिरात्मा करोति स्वयं कायेन संरम्भमिति १२ १२ १२ तृतीयः । तथा लोभकषायग्रस्तः करोति स्वयं कायेन संरम्भमिति ३६ ३६ ३६ चतुर्थः । एवं कृतेन चत्वारो विकल्पाः । कारितेन चत्वारः । अनुमत्यापि चत्वारः । एते द्वादश कायेन लब्धाः। तथा वाचा द्वादश, मनसाऽपि द्वादश, एते षट्त्रिंशत् संरम्भेण लब्धाः । तथा समारम्भेणापि षट्त्रिंशत्, आरम्भेणापि षट्त्रिंशत्, इत्येवमष्टोत्तरं विकल्पशतं भवति । का पुनर्भावना १ योगनिमित्तं हि कर्म बध्यते " कायवाङ्मनः कर्म योगः " ( अ० ६, सू० १ ) इति वचनाद्, बन्धस्थितिः । कोपादिकषायाञ्जनवशीकारात् स्वयं करणपरिणतौ सत्यां कारितानुमतिपरिमाणद्वारेण च प्राणातिपातादिसंकल्प परितापनाव्यापत्तयः साम्परायिककर्मबन्धहेतवो भवन्तीति प्रतिपादितं प्राक् । कायादयो व्यस्ताः समस्ताथ बन्धहेतवः । समस्तास्तु प्रधानोपसर्जनतया च बन्धहेतव इति प्रतीतम् । एवमेतज्जीवाधिकरणं विकल्प्य भावनीयमिति ॥ ९ ॥ Y काय बाकू * मनः १ ‘सकषायः' इति घ- पाठः । २ 'आरम्भः प्राणिबधः' इति घ- पाठः । ३ ' णामद्वारेण' इति ङ-पाठः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004023
Book TitleTattvarthadhigam Sutram Part 02
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages396
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy