SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ १८ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ६ अनुमतमनः संरम्भः इति । एवं समारम्भारम्भावपि । तदपि पुनरेकशः कषायविशेषाच्चतुर्विधम् ॥ टी० - संरम्भं कायेन करोति वाचा करोति मनसा करोतीति । एवं कारयत्यपि विकल्पत्रयं, तथाऽनुमन्यते चेति विकल्पत्रयमेव । कृतवचनं स्वतन्त्रकर्तृप्रतिपादनार्थम् । कारिताभिधानं प्रयोज्यपरतन्त्रप्रदर्शनार्थम् । अनुमतिवचनं प्रयोजकस्य मानसपरिणाम प्रदर्शनार्थम् । एतदेव भाष्यकारो दर्शयति - तद्यथा - कृतकायसंरम्भ इत्यादिवचननवकेन । यथाssaौ कायसंरम्भः कृतकारितानुमतभेदेन विकल्पितः, एवं समारम्भारम्भ त्वपि कृतकारितानुमतविकल्पितौ वाच्यो । समारम्भं करोति समारम्भं कारयति समारम्भमनुमन्यते काये - नेत्यादिर्नवधा विकल्पना । तथाऽऽरम्भं करोति कारयति अनुमोदते चेति नवैव विकल्पा वेदितव्याः । तदपीत्यादिना पुनश्चतुर्धा भिनत्ति । कृतकायसंरम्भादिकरणादि पुनरेकैकं कषायविशेषाच्चतुर्विधं भवति । कषायाः प्रागभिहितलक्षणाः । सामान्येन विशेषो भेदस्तद्भेदाच्चतुर्विधं भवति । भा०—तद्यथा - क्रोधकृतकायसंरम्भः मानकृतकायसंरम्भः मायाकृतकासंरम्भः लोभकृतकायसंरम्भः क्रोधकारितकायसंरम्भः मानकारित काय संरम्भः मायाकारितकाय संरम्भः लोभकारितकाय संरम्भः क्रोधानुमतकाय संरम्भः मानानुमतकाय सरम्भ मायानुमतकायसंरम्भः लोभानुमतकायसंरम्भः । एवं वाङ्मनोयोगाभ्यामपि वक्तव्यम् । तथा समारम्भारम्भौ ॥ टी० - तद्यथेत्यादिना दर्शयति यथाभिहितलक्षणान् विकल्पान् क्रोधकृतकायसंरम्भः । एवं मानमायालोभकृतसंरम्भ इत्यपि वाच्यम् । एवं क्रोधकारितकायसंरम्भः मानमायालोभकारित काय संरम्भ इत्यपि वाच्यम् । तथा क्रोधानुमतकाय संरम्भः मानमायालो भानुमतकाय संरम्भ इत्यपि वाच्यम् । एवं वाङ्मनः संयोगाभ्यामपि वक्तव्यमित्यतिदेशवाक्यम् । एवमित्युक्तप्रकारेण वाग्येोगेनापि क्रोधादिविशिष्टेन वाच्यम् । क्रोधकृतवाक्संरम्भः मानमायालोभकृतवाक्संरम्भ इत्यपि वाच्यम् । तथा क्रोधकारितवाक्संरम्भः मानमायालोभकारितवाक्संरम्भ इत्यपि वाच्यम् । तथा क्रोधानुमतवाक्संरम्भः मानमायालोभानुमतवाक्संरम्भ इत्यपि वाच्यम् । एवं मनोयोगेनापि क्रोधादिविशिष्टेन विकल्पा एतावन्तो. वाच्याः । क्रोधकृतमनः संरम्भः मानमायालो भकृतमनः संरम्भ इत्यपि वाच्यम् । तथा क्रोधकारितमनःसंरम्भः मानमायालोभकारितमनःसंरम्भ इत्यपि वाच्यम् । क्रोधानुमतमनः संरम्भः मानमाया लोभानुमतमनः संरम्भ इत्यपि वाच्यम् । एवमेते षट्त्रिंशद्भेदाः, तद्यथा - क्रोधकतकायसंरम्भ इत्यादिना ग्रन्थेन प्रतिपादिताः । तथा समारम्भारम्भाविति अतिदेशेन समारम्भस्य षट्त्रिंशद्भेदत्वं संरम्भवत् प्रतिपादयति । क्रोधकृतकायसमारम्भ इत्येवमतिक्रान्तग्रन्थः १'० कल्पेन' इति ग-पाठः । Jain Education International For Personal & Private Use Only タ www.jainelibrary.org
SR No.004023
Book TitleTattvarthadhigam Sutram Part 02
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages396
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy