SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ स्वोपक्षभाग्य-टीकालङ्कृतम् संवनानाम् । विषेण मारणम् । लवणेन पृथिव्यादिकायाधुपघातः । स्नेहेन घृततैलादिना बेलामेवोपघातः । क्षारेण सकलत्वङ्मांसाधवकतनम् । अम्लेनाप्यारनालादिना पृथिव्यादि. कायोपषातः । अनुपयुक्तस्य च कायादयो यां चेष्टामभिनिवर्तयन्ति तया तया कर्म वध्यत इति । अथ भावाधिकरणं कतिप्रकारमित्याह-भावाधिकरणमष्टोत्तरं शतम् । माव:वीवादिपरिणाम आत्मनः, स एवाधिकरणं तच्चाष्टोत्तरशतमेदमष्टोत्तरशतं भेदानामागाम्पनन्तरं सूत्रेण भावयिप्यत इत्येदुभयमाख्यातं यत् प्राक् पृष्टं परेण जीवाधिकरणमजीवाधिकरणं च, नातः परमन्योऽधिकरणभेदोऽस्तीति ॥८॥ / सूत्रम् तत्र-आद्यं संरम्भसमारम्भारम्भकृतकारितानुमंत कषायविशेषत्रिनिनिश्चतुश्चैकशः॥९॥ री०-तत्रेत्यनेन सम्बन्ध सूचयति, तयोर्जीवाजीवाधिकरणयोरनन्तरसूत्रप्रस्तुत योर्जीवाधिकरणं तावदुच्यते, आर्य संरम्भसमारम्भेत्यादि सूत्रम् ॥ मा०-भाचमिति सूत्रक्रमप्रामाण्याज्जीवाधिकरणमाह । तत् समासतमोनिका त्रिविषम् । संरम्भः १ समारम्भः २ आरम्भः ३ इति । भेदप्रभेदाः - एतत् पुनरेकशः कायवाङ्मनोयोगविशेषात् त्रिविर्ष भवति। - तद्यथा-कायसंरम्भः वाक्संरम्मः मनःसंरम्भः, कायसमासमाषाक्समारम्भःमनःसमारम्भः; कायारम्भः वागारम्भः मनआरम्भ इति॥ री०-आदौ भवमाद्यम् । इतिशब्दः शब्दपदार्थकः । किंकृतं पुनरावत्वं किंवा सदापमित्याह-सूत्रक्रमप्रामाण्याज्जीवाधिकरणमाह । सूत्रक्रमः-सूत्रानुपूर्वी सूत्रसभिवेश तत्त्रामाण्यादापम् । किं तत् ? जीवाधिकरणमित्याह सूत्रकारः। तत् जीवाधिकरणं समा सतः-संक्षेपतः त्रिविध-त्रिप्रकारम्। प्रकारत्रयप्रदर्शनायाह-संरम्भा संरम्मादीनां प्याच्या समारम्भ आरम्भ इति । तत्र प्राणातिपातादिसंकल्पावेशः संरम्मः । तत्साधनसनिपातजनितपरितापनादिलक्षणः समारम्भः । प्राणातिपावादिक्रियानिवृत्तिरारम्भः । एतदिति जीवाधिकरणं परामृशति । पुनःशब्दः क्रियान्याइ. स्पर्धा सकद मिचं संरम्भादिमेदेन जीवाधिकरणं मिद्यते । एकश इत्येकैकम् । संरम्मापिकरणादि कायवाङ्मनोयोगावशेषात् त्रिविधं भवति । कायादयः प्राय व्याख्यातस्वरूपाः । कायसंरम्माधिकरणं वाकूसंरम्माधिकरणम्, एवं समारम्भारम्भयोरपि कायादिभेदेन पत्रैविध्यं वाच्यम् । योगभेदेन विकल्प्य संरम्मादीनधुना क्रियाद्वारेण योगान् विकल्पयति मा०–तदप्येकशः कृतकारितानुमतविशेषात् त्रिविष भवति । तयथाकृतकायसंरम्भः कारितकायसंरम्भः अनुमतकायसंरम्भः, कृतवाक्संरम्भः कारितवाक्संरम्भः अनुमतवाक्संरम्भः कृतमनःसंरम्भः कारितमनःसंरममा 'मति- इस्पपि पाठः। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004023
Book TitleTattvarthadhigam Sutram Part 02
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages396
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy