SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञभाष्य–टीकालङ्कृतम् सूत्रम् – बाह्या - ऽभ्यन्तरोपध्योः ।। ९-२६ ॥ भा० - व्युत्सर्गो द्विविधः - बाह्योऽभ्यन्तरश्च । तत्र बाह्यो द्वादशरूपकस्योपधेः । अभ्यन्तरः शरीरस्य कषायाणां चेति ॥ २६ ॥ टी० - व्युत्सर्गो विविध इत्यादि । विविधस्योत्सर्गो व्युत्सर्गः । संसक्तासंसक्तपानादेः विधिना प्रवचनविहितेनोत्सर्गो व्युत्सर्गः । स द्विप्रकारः बाह्याभ्यन्तरभेदात् । तत्र तयोर्बाह्यस्य तावद् द्वादशरूपकस्योपधेः पात्रतद्वन्धपात्रस्थापनादीनि द्वादश रूपाण्यस्येति द्वादशरूपकः । उपग्राहकत्वादुपकारत्वादुपधिः । अभ्यन्तरः शरीरस्य कषायाणां वेति । शरीरस्य पर्यन्तकाले विज्ञायाकिञ्चित्करत्वं शरीरकं परित्यजति उज्झति । यथोक्तम् (भग० श० २, उ० १ सू० ९५ ) - " जं पि य इमं सरीरं इर्ड कंर्त " इत्यादि । क्रोधादयः कषायाः संसारपरिभ्रमणहेतवः तेषां व्युत्सर्गः - परित्यागो मनो - वाक्- कायैः कृतकारिता - Sनुमतिभिश्चेति ॥ २६ ॥ सम्यक्त्वादित्रयं मोक्षसाधनं, तत्रापि ध्यानं गरीयस्तन्निरूपणायाहसूत्रम् — उत्तमसंहननस्यैकाग्रचिन्तानिरोधो ध्यानम् ॥ ९–२७ ॥ ध्यानस्य लक्षणम् भा० – उत्तम संहननं वज्रर्षर्भनाराचं वज्रनाराचं नाराचं अर्धनाराचं च । तयुक्तस्यैकाग्रचिन्तानिरोधश्च ध्यानम् ॥ २७ ॥ टी० -- उत्तमं प्रकृष्टं संहननम् - अस्थां बन्धविशेषः । उत्तमं संहननमस्येत्युत्तमसंहननं, तदुत्तमसंहननं चतुर्विधं वज्रर्षभनाराचं वज्रनाराचं नाराचं अर्धनाराचम् । वज्रं - कीलिका, ऋषभः - पट्टः, नाराचो - मर्कटबन्धः । प्रथमं त्रिर्तययुक्तम् । द्वितीयसंहनने पट्टो नास्ति । तृतीये वर्षभौ न स्तः । ततो वज्रर्षभं अर्धवज्रर्षभं नाराचं चेत्यनेन चत्वारो भेदाः प्रतिपाद्याः उत्तमसंहननवाच्याः । उत्तम संहननग्रहणं निरोधे कार्ये प्रतिविशिष्टसामर्थ्यप्रतिपादनार्थम् । तस्योतमसंहननस्य एकाग्रचिन्तानुरोधो ध्यानम् । अग्रम्-आलम्बनं एकं च तदग्रं चेत्येकाग्रं, एकालम्बनमित्यर्थः । एकस्मिन्नालम्बने चिन्तानिरोधः । चलं चित्तमेव चिन्ता, तनिरोधस्तस्यैकत्रावस्थापनमन्यत्रप्रचारो निरोधः । अतो निश्चलं स्थिरमध्यवसानमेकालम्बनं छद्मस्थविषयं ध्यानम् । केवलिनां पुनर्वाक्काययोगनिरोध एव ध्यानम्, अभावान्मनसः । नह्यवाप्तकेवलस्य १ छाया सूत्रे २६-२७ ] अधुना व्युत्सर्गे व्याख्यायते---- यदपि च इदं शरीरमिष्टं कान्तम् । २ ' भमर्धवज्रनाराचं च' इति घ-पाठः । ३ 'नाराचं कीलका' इति ग-पाठः । ४ 'त्रिनयन' इति च पाठः । ५ ' मन्यत्राथवा निरोधः' इति चन्पाठः । Jain Education International २५९ For Personal & Private Use Only www.jainelibrary.org
SR No.004023
Book TitleTattvarthadhigam Sutram Part 02
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages396
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy