________________
२५८ तत्वार्थाधिगमसूत्रम्
[अध्यायः १ यन्तीति साधवो मोक्षम् , संयता इति मूलोत्तरगुणसम्पन्नाः द्वादशविधसम्भोगमाजः समनोशानदर्शनचारित्राणि मनोज्ञानि सह मनोज्ञैः समनोज्ञाः तानि तानि वा सम्मोगकारणानि संविशेष्वपि विद्यन्ते ॥
भाग--एषामन्नपानवस्त्रपात्रप्रतिश्रयपीठफलकसंस्तारादिभिर्धर्मसाधनैरुपप्रहः शुश्रूषा भेषजक्रिया कान्तारविषमदुर्गोपसर्गेषु अभ्युपपत्तिरित्येतदादि वैयावृत्त्यम् ॥ २४ ॥
टी.-एषामित्यादि । आचार्यादयः समनोज्ञान्ताः सम्बन्ध्यन्ते एषामित्यनेन । अन्नपानादयः प्रसिद्धाः तैरुपग्रहः-उपकारः । शुश्रूषा-विश्रामणादिका। भेषजक्रिया-मान्ये सति तदनुरूपभैषजसम्पादनम् । कान्तारम्-अरण्यम् । श्वापदबहुलत्वाद् विषमदुर्ग-गर्ताकूपकण्टकादिप्रचितम् । उपसगों-ज्वराऽ-तीसार-कास-श्वास-मरकादिः। अभ्युपपत्तिःअभ्युद्धरणं परिपालनं परिरक्षणमन्नपानादिभिः) यत् तद् वैयावृत्त्यमिति ॥२४॥
सम्प्रति स्वाध्यायोऽभिधीयतेस्वाध्यायस्य सूत्रम्-वाचना-प्रच्छना-ऽनुप्रेक्षा-ऽनायपञ्चविधत्वम्
धर्मोपदेशाः ॥९-२५ ॥ भा०-स्वाध्यायः पञ्चविधः। तद्यथा-वाचना, प्रच्छनं, अनुप्रेक्षा, आ
नायः, धर्मोपदेश इति। तत्र वाचनं शिष्याध्यापनम् । प्रच्छन धर्मोपदेशस्य ग्रन्थार्थयोः। अनुप्रेक्षा ग्रन्थार्थयोरेव मनसाऽभ्यासः। आपर्यायाः
" मायो घोषविशुद्धं परिवर्तनं गुणनं, रूपादानमित्यर्थः । अर्थोपदेशो व्याख्यानं अनुयोगवर्णनं धर्मोपदेश इत्यनर्थान्तरम् ॥२५॥
टी०–स्वाध्यायः पञ्चविध इत्यादि । तद्यथेत्यनेन भेदपञ्चकोपन्यासं सूचयति । तत्र वाचनेत्यादि । शिष्याणामध्यापनं वाचना कालिकस्योत्कालिकस्य वाऽऽलापकमदानम् । ग्रन्थः सूत्रार्थः सूत्राभिधेयं तद्विषयं प्रच्छनम् । सन्देहे सति ग्रन्थार्थयोमनसाऽभ्यासोऽनुप्रेक्षा । न तु बहिर्वर्णोच्चारणमनुश्रावणीयम् । आम्नायोऽपि परिवर्तनं उदात्तादिपरिशुद्धमनुश्रावणीयमभ्यासविशेषः । गुणनं-सङ्ख्यानं पदाक्षरद्वारेण रूपादानमेकरूपम् । एका परिपाटी द्वे रूपे त्रीणि रूपाणीत्यादि । धर्मोपदेशस्तु सूत्रार्थकथनं व्याख्यानमनुयोगवणेन मनुयोगद्वारप्रक्रमेण श्रुतचरणधर्मोपदेश इत्यनर्थान्तरमिति ॥ २५ ॥
१ 'म्नाया ' इति ग-पाठः । २ 'प्रन्थः सूत्राभि.' इति ग-ङ-पाठः । ३ हपदाम• ' इति क-पाठ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org