________________
सूत्रं २४ ]
स्वोपज्ञभाष्य–टीकालङ्कृतम्
२५७
इत्युपाध्यायः पृषोदरादित्वात् । सङ्ग्रहादीन् वाऽस्योपाध्येतीति संग्रहोपग्रहानुग्रहान् - वाऽस्य सम्बन्धिनस्तत्समीपभवांस्तत्कृतानुपाध्येति स्मरतीति उपाध्यायः द्विसङ्ग्रहो निर्ग्रन्थ इति । सङ्गृह्यतेऽनेनेति सङ्ग्रहः । द्वाभ्यां सङ्गृह्यते इत्यर्थः ॥
का पुनरियं प्रवर्तनीत्याह-
भा० - प्रवर्तनी दिगाचार्येण व्याख्याता । हिताय प्रवर्तते प्रवर्तयति चेति प्रवर्तनी ॥
Q
टी० - प्रवर्तनी दिगाचार्येण व्याख्यातेति । दिगाचार्यो दिशामनुजानाति । सचित्ताचित्तमिश्रप्रदायीत्यर्थः । तेन व्याख्याता तत्सदृशी द्रष्टव्या श्रुतसकलनिशीथाध्ययनासमुचितकल्पव्यवहारस्तत्र ग्राहिणी संविना प्राप्तदिगनुज्ञा चात्महिताय प्रवर्तते निःश्रेयसायैव घटते । अन्याश्च प्रवर्तयति साध्वीः स्मारणावधारणवारणादिप्रयोगेणेति प्रवर्तनी ॥
भा० - विकृष्टोग्रतपोयुक्तस्तपस्वी । अचिरप्रव्रजितः शिक्षयितव्यः शिक्षः, शिक्षामर्हतीति शैक्षो वा । ग्लानः प्रतीतः । गणः स्थविरसन्ततिसंस्थितिः । कुलं एकांचार्य सन्तति संस्थितिः । सङ्घश्चतुर्विधः श्रमणादिः । साधवः- संयताः । सम्भोगयुक्ताः समनोज्ञाः ॥
टी० - विकृष्टेत्यादि । विकृष्टं - दशमादि किञ्चिन्न्यूनपण्मासान्तं उग्रं - भावविशुद्धमनिश्रितमल्पसत्त्वस्य वा भयानकमुग्रं तपस्तेन युक्तस्तपस्वीति । अचिरप्रव्रजित इत्यादि । आद्यपश्चिमतीर्थयोर्मध्यमतीर्थेषु च कतिचिदहानि प्रतिपन्नस्य सामायिकस्य गतानि यस्य सोs - चिरप्रव्रजितः । अनारोपितविविक्तत्रतो वा ग्रहणासेवनशिक्षामुभयीं शिक्षयितव्यः शिक्षः । शिक्षामर्हतीति । वा शिक्षाशीलो वा शैक्षः । छत्रादित्वाण्णप्रत्ययः । ग्लानो मन्दो - पटुर्व्याध्यमिभूतः । प्रतीतः- सुज्ञात एवेत्यर्थः । कुलानि स्थानीयादीनि । कुलं समुदायः । गणः- स्थविरसन्ततिसंस्थितिः । स्थविरग्रहणेन श्रुतस्थविरपरिग्रहः, न वयसा पर्यायेण वा, तेषां सन्ततिः - परम्परा तस्याः संस्थानं - वर्तनं अद्यापि भवनं संस्थितिः कुलमाचार्यसन्ततिसंस्थितिः एकाचार्यप्रणेयसाधुसमूहो गच्छः । बहूनां गच्छानां गच्छ-कुलयोरर्थः एकजातीयानां समूहः कुलम् । तत्र ये आचार्यगुणोपेतास्तत्सन्ततिसंस्थितिः कुलं तेषां प्राधान्यम् । सङ्घश्चतुर्विधः - साधु-साध्वी श्रावक-श्राविकाः । तत्र ये ब्यवस्थिताः ज्ञान-दर्शन-चरणगुणास्ते परमार्थतः सङ्घः श्रमणादिद्रिति । 'पुरुषोत्तरो धर्म : ' इति ज्ञापनार्थमुक्तम् । साधवः संयता इति । ज्ञानादिलक्षणाभिः पौरुषेयीभिः शक्तिभिः साध
n
१' अविरते प्रत्रजित' इति घ-पाठः । २ ' आचार्य०' इति घ-पाठः । ३ ' गुणो यस्तत्' इति ङ-पाठ । " धम्मो पुरिसप्पभवो पुरिसवर देसिओ पुरिसजिहो । लोए वि पहू पुरिसो किं पुण लोगुत्तमे धम्मे ! ॥ इत्युलेख उपदेशमालायां ( गा० १६ ) । ५ ' लक्ष्याभिः ' इति ग-पाठः ।
३३
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org