________________
३००
मुक्तिगमने हेतवः
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः १० सूत्रम्-पूर्वप्रयोगाद् , असङ्गत्वाद्, बन्धच्छेदात्, तथाहेतवः गतिपरिणामाच तद्गतिः ॥ १०-६॥
भा०-पूर्वप्रयोगात् । यथा हस्तदण्डचक्रसंयुक्तसंयोगात् पुरुषप्रयत्नतश्चाविद्धं कुलालचक्रमुपरतेष्वपि पुरुषप्रयत्नहस्तदण्डचक्रसंयोगेषु पूर्वप्रयोगाद भ्रमत्येवा संस्कार परिक्षयात् ।
०-उपरतकर्तृव्यापाराद् यथा कुलालचक्रं 'हस्तदण्डचक्रसंयुक्तसंयोगात्' हस्तेन दण्डः संयुक्तः, दण्डेन चक्रं संयुक्त संयुक्तसंयोगः तस्मात् पुरुषप्रयत्नतश्च-पुरुषपरिस्पन्दाच आविद्धं-वेगितं प्रेरितं उपरतेष्वपि पुरुषव्यापारादिषु पूर्वप्रयोगात् हस्तादिव्यापारप्रेरणाद् भ्रमत्येव आ संस्कारपरिक्षयात्। संस्कारः-अनवरतक्रियाप्रबन्धः। दृष्टान्तेन दार्टान्तिकमर्थं समीकुर्वन्नाह
भा०-एवं यः पूर्वमस्य यत्कर्मणा प्रयोगो जनितः स क्षीणेऽपि कर्मणि गतिहेतुर्भवति । तत्कृता गतिः । किश्चान्यत्
टी--एवं यः पूर्वमस्येत्यादि । योगनिरोधाभिमुखस्य यत् कर्म-क्रिया तेन कर्मणा यः प्रयोगो जनितः स क्षीणेऽपि कर्मणि अविच्छिन्नसंस्कारत्वात् योगाभावेऽपि गतिहेतुभवति । तेन हेतुना क्रियते गतिरित्यर्थः । किश्चान्यदिति द्वितीयं हेत्वन्तरमुपन्यस्यति
भा०---असङ्गत्वात्। पुद्गलानां जीवानां च गंतिमत्त्वमुक्तं, नान्येषां द्रव्याणाम् । तत्राधोगौरवधर्माणः पुद्गलाः, ऊर्ध्वगौरवधर्माणो जीवाः । एष स्वभावः ।
टी-असङ्गत्वादिति । सङ्गः-स्खलनं तद्भावः सङ्गत्वं, स्खलितत्वमित्यर्थः। न सङ्गत्वमसङ्गत्वम्-अस्खलितत्वं तस्मादसङ्गत्वात् सिद्धस्योर्ध्वं गतिः सिद्धा। न हि स्वाभाविक्या गत्या गच्छन्ना कचित् स्खलनमासादयति । एतद्व्याख्यानायाह -पुद्गलानामित्यादि । पूरणाद् गलनाच पुद्गलाः-परमाणुप्रभृतयः। जीवास्तु ज्ञानदशेनोपयोगलक्षणाः । एषां पुद्गलजीवानां गतिमत्त्वमुक्तं, नान्येषां-धर्माधर्माकाशद्रव्याणाम् । तत्र स्वभावत एव अध:अधस्तात् गौरवं भारिकत्वं, परिणामविशेषः । गौरवं धर्मो येषां ते गौरवधर्माणः पुद्गलाः ऊर्ध्वगौरवधर्माणो जीवा इति । जीवानामपि तादृशं गौरवं परिणामविशेषो लाघवं येषामिति । एवंविधं तेषां गौरवं विशिष्टं येनोर्ध्व गच्छन्ति एषा(ष ?) पुद्गलानां च स्वभावः ।
१ 'चक्रसंयोगात् ' इति ग-पाठः । २ ‘मस्य कर्मणा' इति घ-पाठः। 'मिख्यस्य ' इति च-पाठः। ४ 'गतित्व' इति ग-पावः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org