________________
सूत्रं ६] . स्वोपज्ञभाष्य-टीकालङ्कृतम्
भा०-अतोऽन्यासङ्गादिजनिता गतिर्भवति । यथा सत्स्वपि प्रयोगादिषु गतिकारणेषु जातिनियमेनाधस्तिर्यगूज़ च स्वाभाविक्यो लोष्टवावग्ननिां गतयो दृष्टास्तथा सङ्गविनिमुक्तस्योर्ध्वगौरवादूर्ध्वमेव सिध्यमानगतिर्भवति। संसारिणस्तु कर्मसंङ्गादधस्तियंगूर्व च । किश्चान्यत्
टी०-अतोऽन्येति स्वाभाविकी गतिमपहाय सङ्गादिजनिता गतिर्भवति । सङ्ग:कर्मकृतं स्खलनम् । आदिग्रहणात् अभिधातप्रेरणादिषु गमनकारणेषु । 'जातिनियमेन' जातिः पृथिव्य-ऽनिला-ऽनलव्यक्तिभेदेन भिन्ना । पृथिवीत्व-वायुत्वा-ऽग्नित्वाख्या तया नियमः क्रियते। तत्र पृथिवीत्वनियमेनाधोगतिर्लोष्ठः। यो हि बादरः पृथिवीपरिणामः स सर्वोऽधोगतिः। एवं तिर्यग्गतिर्वायुः । ऊर्ध्वगतिर्दहनः । स्वजातिनियमेनैवमेषामेताः स्वाभाविक्यो गतयो यथा तथा सङ्गविनिर्मुक्तस्य-कर्मकृतस्खलनरहितस्य ऊर्ध्वगौरवात् परिणामविशेषादूर्ध्वमेव सिध्यमानगतिर्भवति । संसारिणस्तु-नरकादिगतिचतुष्टयवर्तिनः संसारे परिभ्रमतः कर्मसङ्गात्-कर्मजनितस्खलनादधस्तियंगूज़ चानियमेन गतिर्भवति ॥
किश्चान्यदिति युक्त्यन्तरोपन्याससूचनम् ।
भा०-बन्धच्छेदात् । यथा रज्जुबन्धच्छेदात् पेडाया बीजकोशबन्धनच्छेदाचैरण्डबीजादीनां गतिदृष्टा तथा कर्मबन्धनच्छेदात् सिध्यमानगतिः ॥ किश्चान्यत
टी-बन्धच्छेदादिति । बध्यते 'येन रज्ज्वादिना स बन्धः । तस्य छेदः शस्त्रेण घोटनं वा । तद् व्याचष्टे-यथा रज्ज्वा गाढमापीड्यापीड्य बद्धायाः कीचकविदलघटितायाः रज्जुबन्धच्छेदादुपरितनपुटस्य गमनमूर्ध्व दृष्टं बीजकोशबन्धच्छेदाच बीजकोशः फलीफलं वा तस्यास्तु बन्धनं गाढसम्पुटता सवितृकरजालशोषितायाः परिणतिकाले सम्पुटोद्भेदः छेदः। ततश्च एरण्डादिफलभेदे बीजानां गतिर्दृष्टा। तानि तूड्डीयोड्डीय दूरे पतन्ति तथा कर्मबन्धः फलकडाहस्थानीयस्तच्छेदात्-तद्विघटनादनन्तरमेवोज़ सिध्यमानगतिरिति ॥ किश्चान्यदिति विवक्षितार्थप्रसाधनाय हेत्वन्तरमुपादत्ते
भा०–तथागतिपरिणामाच्च । ऊर्ध्वगौरवात् पूर्वप्रयोगादिभ्यश्च हेतुभ्यस्तथाऽस्य गतिपरिणाम उत्पद्यते येन सिध्यमानगतिर्भवति, ऊँ नास्तिर्यग् वा ॥
टी०–तथागतिपरिणामाचेति । तथा तेन प्रकारेण सर्वकर्मविनिर्मुक्तस्यास्य गतिपरिणामो भवति विगतयोगस्यापि । चशब्दः समुच्चये । एभ्यश्च पूर्वोक्तहेतुभ्यः-ऊर्ध्वगौरवात् पूर्वप्रयोगादिभ्यश्च गतिपरिणाम उत्पद्यते येन सिध्यमानगतिर्भवतीति ।
१'वाद्यादीनां' इति ग-पाठः। २ 'संयोगा.' इति ग-पाठः। ३'हेम' इति ज-पाठः । ४ 'ऊर्ध्वमेव भवति' इति घ-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org