________________
३०२ तत्त्वार्थाधिगमसूत्रम्
[अध्यायः १० सप गतिपरिणाम ऊर्ध्वमेव भवति नास्तिर्यग वा । पूर्वाभिहितहेतुनिरपेक्ष ऊर्ध्वगौरवप्रयोगपरिणामाद् विना असङ्गयोगं चान्तरेणेत्यादि । तदाह
भा०-गौरवप्रयोगपरिणामासङ्गयोगाभावात् । तद्यथा-गुणवद्भमिभागारोपितमृतुकालजातं बीजोद्भेदादङ्कुरप्रवालपर्णपुष्पफलकालेषु अविमानितसेकदौहुंदादिपोषणकर्मपरिणतं कालच्छिन्नं शुष्कमलाबु अप्सु न निमज्जति ।
टी-गौरवप्रयोगपरिणामासङ्गयोगाभावादित्यादि । तद्यथेत्यादिना दृष्टान्तमाह-अलाबुनोऽवस्थाः पूर्विका विशेष्यन्ते । गुणवद्भूमिभागारोपितमिति बीजावस्था । गुणवान् भूमिभागोऽनुपहतः क्षार-मूत्र-पुरीषादिभिः तत्रारोपितं निखातं सत् काले-वर्षासु
जातं ततश्चोच्छेनावस्थाद् बीजोद्भेदादङ्कुरः प्रवालं किसलयं पर्ण जरठं
व ततः पुष्पं ततः फलं एषां वीजारोपणोद्भेदादकुरप्रवालपर्णपुष्पफलानां कालेषु स्वेषु स्वेषु विमानितः प्राप्तकालो न कृतः कृतस्त्वविमानितः सेको दौहृदश्च । आदिग्रहणादस्थि-धूम-भस्मावगुण्ठनादिपरिग्रहः । एवमादिना पोषणकर्मणा परिणतंजरठीभूतं पकं काले परिपाकोत्तरकालच्छिन्नं शुष्कमलाबु अप्सु न निमज्जतिन जलेऽन्तः प्रविशति । सर्वेषां विशेषणानामिदं फलं निरुपहतं वातेनानाश्लिष्टं अशुषिरमिति ।
भा०–तदेव गुरुकृष्णमृत्तिकालेपैनैर्बहुभिरालिप्तं धनमत्तिकालेपवेष्टनजनितागन्तुकगौरवमप्सु प्रक्षिप्तं तज्जलप्रतिष्ठं भवति। यदा त्वस्याद्भिः क्लिन्नो मृत्तिकालेपो व्यपगतो भवति तदा भृत्तिकालेपसङ्गनिर्मुक्तं मोक्षानन्तरमेवोवं गच्छति आ सलिलोवंतलात्।।
टी०–तदेव च पुनर्गुाः कृष्णमृत्तिकाया लेपैर्धनैः-निरन्तरैर्बहुभिः-अष्टाभिदमवेष्टंने कालमालिप्तः तेन च घनमृत्तिकालेपेन वेष्टनेन च दर्भादिजनितमागन्तुकं गौरवं यस्य तदेवंविधमप्सु प्रक्षिप्तं तेजलप्रतिष्ठं भवति उत्तरकालम् । यदा त्वस्याद्भिः सम्बन्धतः क्लिन्नो मृत्तिकालेपो व्यपगतो भवति तदा तत्सङ्गविनिर्मुक्तं दर्भादिबन्धनमृत्तिकामोक्षणसमनन्तरमेवो गच्छत्या सलिलोवंतलादित्येष दृष्टान्तः ।
सम्प्रति दार्शन्तिकं दर्शयति
भा०–एवमूर्ध्वगौरवगतिधर्मा जीवोऽप्यष्टविधकर्मलेपत्तिकाऽवेष्टितस्तत्सङ्गात् संसारमहार्णवे भवसलिले निमग्नो भवासक्तोऽधस्तिर्यगूवं च गच्छति
१'तूना' इति ज-पाठः। २ मृत्तिकावेष्टन' इति ग-पाठः । ३ ' तलप्रविष्टं' इति ग-पाठः । ४.वेटनकाल' इति च-ज-पाठः। ५'तलप्रतिष्ठं ' इति च-ज-पाठः। ६ 'सम्बन्धेन' इति ग-पाठः । ७ 'मृत्तिकावेष्टितः सन् संसार.' इति ग-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org