________________
मतान्तरम्
सूत्र ५] स्वोपज्ञभाष्य-टीकालङ्कृतम्
२९९ भूमिमित्याह-लोकान्तात् पञ्चास्तिकायसमुदायो लोकः तस्यान्तो-मस्तकः, तत्रेपत्प्राग्भारा नाम क्षोणी तुहिनसकलधवला उत्तानकच्छत्रकाकृतिः । तस्याश्थोपरि योजनमेकं लोकः, तस्याधस्तनकोशत्रयं हित्वा तुरीयक्रोशस्य उपरितनके षड्भागे त्रयस्त्रिंशदुत्तरधनुस्त्रिशतीसम्मिते धनुखिभागाधिके लोकान्तशब्दो वर्तते । आङो मर्यादायां प्रयोगः आँ उदकान्तादिति यथा, एवमा लोकान्ताद् गच्छति, न ततः परमिति । तस्य च मुक्तात्मनो देहवियोगः सर्वात्मना तैजस-कार्मणयोः क्षयः। सिध्यमानगतिरिति ताच्छील्ये वाऽनङ्-सेधनशील एवासौ नान्यशीलोऽवश्यमेव सिध्यति तस्य गतिरितो गमनं मुक्तस्य सतः लोकान्तप्राप्तिः-लोकान्तेऽवस्थानं एतस्त्रितयमप्येकेन समयेन परमनिरुद्धेन कालविशेषेण युगपद्
भवति । गतिश्च समयान्तरं प्रदेशान्तरं वाऽस्पृशन्ती भवति । तस्य ५ अचिन्त्यसामर्थ्याच्चैतत् सर्वं युगपद् भवति । देहवियोगादि केचिदाहुः कर्मक्षयकालश्च देहवियोगादिसमकाल एव भवतीति ।
भा०-तद्यथा-प्रयोगपरिणामादिसमुत्थस्य गतिकर्मण उत्पत्तिकार्यारम्भविनाशा युगपदेकसमयेन भवन्ति तद्वत् ॥ ५॥
टी०-तद्यथेत्यादिना दृष्टान्तयति-प्रसिद्धेन दृष्टान्तवस्तुना सिद्धस्य उत्पादादीनामेककालता साध्यते। प्रयोगो वीर्यान्तरायक्षयोपशमात् क्षयाद वा चेष्टास्वरूपः परिणामः प्रयोगपरिणामः। आदिग्रहणात् स्वाभाविको वा। परमाण्वादीनां गतिपरिणामस्तत्समुत्थस्यतस्माज्जातस्य गतिकर्मणो-गतिक्रियाविशेषस्य कार्यद्वारेणोत्पत्तिकालः कार्यारम्भश्च कारणविनाशश्च पर्यायान्तरेण घणुकादिकार्यारम्भः पूर्वपर्यायेण विनाशस्तद्वत् सिद्धस्यापि कर्मक्षयदेहवियोगादयः समकाला एकसमयेन भवन्तीत्यर्थः । उत्पादेविगमस्थानवदिति सुज्ञानम् ॥ ५॥
भा०–अत्राह-प्रहीणकर्मणो निरास्रवस्य कथं भवतीति। अनोच्यते
टी-अबाहेत्यादि सूत्रं सम्बध्नाति । प्रहीणकर्मण इति क्षपितनिरवशेषकर्मराशेनिरास्रवस्य-निरस्तकायवामनोयोगस्य कथं-केन प्रकारेण गतिः-लोकान्तप्राप्तिर्भवति । एवं मन्यते-योगाभावात् स तदा निष्क्रियोऽगतिश्च (अ)क्रियातो लोकान्तगमनमनुपपन्नमिति प्रश्नयति । अत्रोच्यते-यथा गमनं समस्ति मुक्तात्मनस्तथोच्यते
१'तद्देश' इति उ-पाठः। २'कच्छपाकृतिः' इति ङ-पाठः । ३ 'अत्रोदकान्ता.' इति उ-पाठः, 'अत्रेदं कान्ता' इति तु च-ज-पाठः ।४'विनाशस्थान ' इति ग-पाठः। ५ 'लोकगमन' इति हु-पाठः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org