________________
तत्वार्थाधिगमसूत्र
[ अध्यायः ६
त्सर्गापवादप्रपञ्चः स्वातन्त्र्यात् क्रियाप्रवृत्तौ न व्याहन्यते । बालः - क्षुल्लकः कारणप्रब्राजितो जघन्यादिभेदः । जातिश्रुतपर्यायस्थविरास्त्रयः, षष्टिवर्षः समवायधरो व्रतारोपणोत्तरकालं विंशतिवर्षश्च यथाक्रमं वृद्धः । तपो बाह्यमनशनादि, आन्तरं च प्रायश्चित्तादि, तदस्यास्तीति तपस्वी, विचित्रं वा तपः कनकरत्नावल्यादिभेदं वक्ष्यमाणं तद्योगात् तपस्वी | शिक्ष्यत इति शिष्यः (क्षः१), शिक्ष एव शैक्षः, स्वार्थे (S) प्राज्ञादिवत् | शिक्षणशीलो वा । छात्रादिपाठात् सप्रत्ययः । शैक्षः । सूत्रार्थाधिगमेऽभियुक्तो यथाविहित कालमध्येतव्ये श्रोतव्ये चाभ्युद्यत इत्यर्थः । ग्लानो - मन्दपाटवः सव्याधिकत्वाद् भक्तपानाद्यन्वेषणे न प्रत्यलः । आदिग्रहणात् कुलगणसमनोज्ञपरिग्रहः । चशब्दः समुच्चये । श्रुतधराणां बालादीनां च सङ्ग्रहादिका - रित्वम् । तत्र सङ्ग्रहः – परिग्रहणमुपसम्पदालोचनापूर्वकं संयमानुष्ठानश्रुताध्ययन चोदनाप्रतिचोदनार्थम् । उपग्रहो वस्त्रपात्रोत्पाद नत्र हुगुणक्षेत्रा क्रान्तिलक्षणः । अनुग्रहो भक्तपानयथायोग्यविहितप्रदानादिलक्षणः, एतत् करोति तच्छीलच तद्भावः सङ्ग्रहोपग्रहानुग्रहकारित्वं तत्परिणामितेतियावत् । प्रवक्तीति प्रवचनम् । एत एव श्रुतधरादयो भगवद्भाषितार्थप्रतिपादनपरिणताः प्रवचनशब्दवाच्यास्तेषु वात्सल्यम् । उक्तं सङ्ग्रहोपग्रहानुग्रहलक्षणम् । इतिशब्द आद्यर्थः । विंशतेः कारणानां सूत्रकारेण किञ्चित् सूत्रे किश्चिद् भाष्ये किञ्चित् आदिग्रहणात् सिद्धपूजाक्षणलवध्यान भावनाख्यमुपात्तम्, उपयुज्य च प्रवक्त्रा व्याख्येयम् । इदानीमु संहरतिएते गुणा इत्यादिना । एते यथोद्दिष्टा गुणा दर्शन विशुद्धयादय आत्मनः परिणामाः समुदिताः प्रत्येकं च तीर्थकर नामकर्मण आस्रवा भवन्ति, न पुनर्नियमोऽस्ति समस्ता एव व्यस्ता एव वा । विकल्पार्थो वाशब्दः । इतिशब्दस्तीर्थ करनाम कर्मास्रवेयत्ताप्रतिपादनार्थ इति ॥ २३ ॥
३८
नामानन्तरनिर्देशभाजो गोत्रस्योपादाने किं निबन्धनमिति, एतद् द्विधा गोत्रं - नीचैरुच्चैश्च । तत्र तावन्नी चैर्गोत्रा स्रवप्रसिद्ध्यर्थमिदमाह - नीचैगत्रस्यास्त्रवाः सूत्रम् —– परात्मनिन्दाप्रशंसे सदसगुणाच्छादनोद्भावने च नीचैर्गोत्रस्य ॥ ६-२४॥
-
भा०—परनिन्दा आत्मप्रशंसा सद्गुणाच्छादनमसद्गुणोङ्गावनं चात्मपरोभयस्थं नीचैर्गोत्रस्यास्रवा भवन्ति ॥ २४ ॥
टी० – परनिन्देत्यादि भाष्यम् । परश्चात्मा च परात्मा निन्दा च प्रशंसा च निन्दाप्रशंसे परात्मनो निन्दाप्रशंसे यथाक्रममभिसम्बन्धः परात्मनिन्दाप्रशंसे । सन्तोऽसन्तश्च सदसन्तःविद्यमानाविद्यमानाः ते च ते गुणाश्च सदसद्गुणाः, छादनं चोद्भावना च छादनोद्भावने, अत्रापि क्रमेणाभिसम्बन्धः सदसद्गुणाच्छादनोद्भावने । चशब्दात् परात्मनिन्दाप्रशं से समुच्चीयेते ।
१' प्रज्ञादित्वात् ' इति क- पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org