________________
सूत्रे २५-२६] स्वोपनभाष्य-टीकालङ्कृतम् नीचैर्गोत्रस्य कर्मण आस्रवा भवन्ति । तत्र स्वात्मव्यतिरिक्तः परस्तस्य गुणवतोऽपि गुणापह्नवद्वारेण निन्दा-अपवदनमभूतानां भूतानां च दोषाणामुद्भावनं, स्वात्मनः प्रशंसनं-स्तुतिर्गुणोदावनम् अभूतानां भूतातां च गुणानामात्मनैव प्रख्यापनम् । सन्तो गुणा विद्यमानास्तेषां छादनं-संवरणं स्थगनं, द्वेषात् पृष्टोऽपृष्टो वा नाचष्टे गुणान् सतोऽपि, प्रस्तुतत्वात् परसम्बन्धिगुणगणच्छादनमेव सम्बन्ध्यम्, आत्माभिसम्बन्धेनासताम्-अभूतानामेव गुणानामुद्भावनं करो. त्यपृष्टः पृष्टो वा प्रख्यापयतीतियावत् । एतदेव च स्फुटतरं विभजते-आत्मपरोभयस्थमिति । आत्मस्थमसद्गुणोद्भावनं परस्थं सद्गुणच्छादनमात्मपरावेवोभयं तत्र स्थितं-वर्तमानम् । नीचैः रिति । नीचं--जघन्यं-हीनम् । गोत्रमिति गूयते-अभिधीयते आहूयते वाऽनेनेति गोत्रम् । यद कमांशुभं तन्निमित्तीकृत्याभिधा प्रवर्तते चण्डालश्वपचमत्स्यबन्धादि तन्नीचैर्गोत्रं कर्म अभिसम्बन्धात् चशब्दोऽपि कुत्साहेतुष्वेव प्रयुज्यते । एवमेते परनिन्दादयो जातिकुलरूपबलश्रुताझैश्वयेतपोमदपरावज्ञानोत्पारनकुत्सनादयश्च नीचैर्गोत्रस्यास्रवा भवन्तीति ॥२४॥
इदानीमुच्चैर्गोत्रस्यास्रवाभिधित्सयेदमाहउचैर्गोत्रस्यास्रवाः सूत्रम्-तद्विपर्ययौ नीचैर्वृत्त्यनुत्सेको चोत्तरस्य ॥२५॥
भा०-उत्तरस्येति सूत्रक्रमप्रामाण्यादुच्चैर्गोत्रस्याह । नीचैर्गोत्रास्रवविपर्ययो नीचैवृत्तिरनुत्सेकश्वोचैर्गोत्रस्यास्रवा भवन्ति ॥ ६-२५ ॥
टी०--तदिति सर्वनाम पूर्वप्रकृतापेक्षं प्राक् प्रकृता नीचे!त्रास्रवास्तेषां विपर्ययोयथाभिहितवैपरीत्यं परगुणप्रशंसा आत्मनिन्दा च सद्गुणप्रकाशनमसद्गुणच्छादनं च परत्र, आत्मनि तु सद्गुणच्छादनमप्यात्मोत्कर्षपरिहारार्थ, तथा नीचैर्वृत्तिः-नीचैर्वर्तनं विनयप्रवणवाकायचित्तता । उत्सेको-गर्वः श्रुतजात्यादिजनितः नोत्सेकेऽनुत्सेको-विजितगर्वता । एतौ नीचैवृत्त्यनुत्सेको चशब्दात् तद्विपर्ययश्च उत्तरस्येति सूत्रक्रमप्रामाण्यादुर्गोत्रस्याह । इतिशब्दः पदार्थकः । नीचैर्गोत्रमुक्तलक्षणं तस्यास्रवविपर्ययः परगुणप्रशंसादिरपरं चास्रवद्वयं नीचैवृत्तिरनुत्सेकश्वोचैर्गोत्रस्यास्रवाभवन्ति । उच्चैरिति । उच्चम्--उत्कृष्टमिक्ष्वाकुहरिभोजराजन्यादीति ॥ २५॥
उक्तं गोत्रम् । आस्रवाधिकार एवायमनुप्रवृत्तस्तत्र समस्तकर्मप्रत्यवसाननिर्दिष्टस्यानुग्राहकसुखव्यवच्छेदकृतोऽन्तरायस्य क आस्रव इत्युच्यतेअन्तरायस्यानवाः सूत्रम्-विघ्नकरणमन्तरायस्य ॥ ६-२६ ॥
भा०-दानादीनां विघ्नकरणमन्तरायस्यास्रवो भवतीति । एते साम्परा. यिकस्याष्ठविधस्य पृथक् पृथगासवविशेषा भवन्तीति ॥२६॥
टी०-विघ्नो-विधातः-प्रतिषेधः सव्याजो निर्व्याजश्च तस्य करणम्-अनुष्ठानं तत्परि१. गुणाच्छादनमेव ' इति प्रतिभाति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org