SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ तत्वार्थाधिगमसूत्रम् [ अध्यायः ६ णामयोगिनोऽन्तरायाभिधानस्य कर्मण आस्रवो भवति । एतदेव भाष्येग स्पष्टयति-दानादीनामित्यादि । दानमादिर्येषां ते दानादयो दानलाभ भोगोपभोगवीर्यादानलाभादीनां ख्याः । तत्र दानं विशिष्टपरिणामपूर्वकं स्वस्य परस्वत्वापादनम् । तदेव व्याख्या गृह्यमाणं प्रतिग्रहीत्राऽऽदेयं लाभ उच्यते । भोगो मनोहारिशब्दादिविषयानुभवनम् । उपभोगोऽन्नपानवसनाद्यासेवनम् । वीर्यमात्मपरिणामो विशिष्टचेष्टशलक्षणः । एषां दानादीनां विकरणं येन येनोपायेन न दत्ते तं तमुपायमापादयति दातुः, एवं येन येनोपायेन न लभते लिप्सुस्तथा भोगोपभोगानुभवनसमर्थो येन येनोपायेन न भवति यथा चास्य-वीर्यम्—उत्साहः--पराक्रमो न भवति तथा तथाऽनुतिष्ठतेऽन्तरायस्य कर्मण आस्रवो भवति । इतिशब्दो विघ्नकरण विशेषप्रदर्शनार्थः ॥ अधुना सकला स्रवप्रकरण परामर्शद्वारेणोपसंहरत्यध्यायार्थम् - एते साम्परायिकस्येत्यादिना । एते तत्प्रदोष निवादयः संसारभ्रमण कारणस्याष्टअभ्यायोपसंहारः विधस्य ज्ञानावरणादेरन्तरायपर्यवसानस्य कर्मणः पृथक पृथ‍ विवेकिना पुनरु ( पृथगु)क्ततया आस्रवविशेषाः सामान्यास्रवापेक्षया विशेषा भवन्ति । इतिशब्दोऽत्राभिधित्सितसंक्षिप्तार्थपरिसमाप्ताविति ॥ २६ ॥ ४० ॥ इति श्रीतत्त्वार्थ सूत्रे भाष्यसंयुक्ते भाग्यानुसारिण्यां तत्त्वार्थटीकायाम् आस्रवप्रतिपादनपरः षष्ठोऽध्यायः समाप्तः ।। ६ ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004023
Book TitleTattvarthadhigam Sutram Part 02
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages396
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy