________________
सप्तमोऽध्यायः ७
तत्रादिमं भाष्यम्---
भा०-अत्राह-उक्तं भवता सांतावेद्यस्यास्रवेषु ( अ०६ सू०१३) भूतबत्यनुकम्पति । तत्र किं व्रतं को वा व्रतीति । अत्रोच्यते
टी--अत्राहोक्तं भवतेत्यादिना सम्बध्नाति भाष्यकारः। सूत्रपूक्तं षष्ठाध्याये सके. दनीयकर्मास्रवेषु भूतव्रत्यनुकम्पति सकलसूत्रोपलक्षणम्।अथवा यावत् सम्बन्धोपयोगि तावत एवोपादानं, व्रतीति श्रूयते मत्वर्थीयप्रत्ययान्तः। तत्र किं व्रतं को वा व्रतीति प्रश्नेनोपक्रम्यते ॥ ननु च व्रतप्रश्न एव न्याय्यः तत्प्रस्तावात्, तत्परिज्ञानात् तु तत्सम्बन्धे व्रती सुज्ञान एवेति । उच्यते-विशिष्टसम्बन्धख्यापनार्थ व्रतिग्रहणं, वक्ष्यत्युपरिष्टात् “ निःशल्यो व्रती" (अ० ७, सू०१३) इति । प्राणातिपातादिविरतयो मायादिशल्यविविक्ता व्रतव्यपदेशमश्नुवते, तथाविधव्रतसम्बन्धाच व्रतीति । अत्रोच्यत इति व्रतस्वरूपनिर्णयार्थमाहमतव्याख्या सूत्रम्-हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिव्रतम् ॥७-१॥
टी०–बतिस्वरूपं त्विदमेव भाष्यमनूयोपरिष्टात् प्रतिपादयिष्यते । गृह्णीमस्तावद् प्रतान्यथ व्रती क इत्यत्रेति । हिंसादयः कृतद्वन्द्वाः पञ्चम्यन्ताः । पञ्चमी च जुगुप्साविरामप्रमादार्थानामुपसङ्ख्यानादपादानलक्षणा, तां च प्रत्येकं हिंसाया इत्यादिना भाष्येण दर्शयति
भा०-हिंसाया अनृतवचनात् स्तेयादब्रह्मतः परिग्रहाच कायवाझानोभि. विरतिव्रतम्। टी-हिंसादयश्च वक्ष्यमाणलक्षणाः। तत्र कषायादिप्रमादपरिणतस्यात्मनः कर्तुः काया
दिकरणव्यापाराद् द्रव्यभावभेदेन प्राणव्यपरोपणं हिंसा । प्रागमिहितहिंसादीनां व्याख्या सामान्यलक्षणयोगे सति सद्भूतनिह्नवासद्भूतोद्भावनविपरीतकसावधादि
मृषावचनम् । परपरिगृहीतस्य स्वीकरणगाक्रान्त्या चौर्येण शास्त्रेनिषिइस वा स्तेयम् । पूर्वलक्षणयोगान्मोहोदये सति चेतनाचेतनस्रोतसोरासेवनमब्रम । सचिताचित्तमिश्रेषु द्रव्यादिषु शास्त्राननुमतेषु ममत्वं परिग्रहः । चशब्दः समुच्चयार्थः । एभ्यो हिंसा. दिभ्यः कायवाभनोभिर्विरतिव्रतम् । विरतिः-निवृत्तिः ॥ ननु चासूत्रितत्वात् काया. दिवयमनुपादेयं भाष्येण । नायं दोषः । आत्मना हि विरतिः । सा च करणमवश्यंतयाऽपे. क्षते । तच्च कायायेव योग्यम् । अथवा प्रमत्तयोगादित्यत्र योगग्रहणलक्षणसूत्रे सर्वव्रतविशेषणार्थ
१ सद्वेद्य. ' इति घ-पाठः । २ हिंसादय ' इति ग-ङ-पाठः । ३ 'शास्त्रप्रतिषिद्धस्य ' इति जु-पाठः । ४' कारणावश्यतया ' इति ग-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org