________________
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ७ यत तच्चेतसि सनिवेश्य विवृतं भाष्यकारेण । आस्रवाध्यायवक्तव्यशेषमेव वाऽधिकृत्य सप्तमाध्यायमाह। व्रतशब्दः शिष्टसमाचारात निवृत्तौ प्रवृत्तौ च प्रयुज्यते लोके । निवृत्ते चेद्धिसातो विरतिःनिवृत्तिव्रतं, यथा-वृषलाग्नं व्रतयति-परिहरति । वृषलान्नान्निवर्तत इति, ज्ञात्वा प्राणिनः प्राणातिपातादेनिवर्तते । केवलमहिंसादिलक्षणं तु क्रियाकलापं नानुतिष्ठतीति तदनुष्ठानप्रवृत्त्यर्थव व्रतशब्दः । पयो व्रतयतीति यथा, पयोऽभ्यवहार एव प्रवर्तते नान्योति, एवं हिंसादिभ्यो निवृत्तः शास्त्रविहितक्रियानुष्ठान एव प्रवर्तते, अतो निवृत्तिप्रवृत्तिक्रियासाध्यं कर्मक्षपणमिति प्रतिपादयति । निनिप्रवृत्ती च शासचोदिते, तदनुष्ठानान्मोक्षावाप्तिरिति ॥ ननु च भाष्यकारो निवृत्तिवचनमेव व्याचष्टे व्रतशब्देन, प्रवृत्तिवचनमपीति तदेतत् कथम् ? । अयममिप्रायो भाष्यकृतः-अन्यतरोपादानेऽन्यतरप्रतीतिः सम्बन्धशब्दत्वाद् भवत्येव पितापुत्रादिवत् । यत उक्तम्-"ज्ञानक्रियाभ्यां मोक्ष" इति ।प्राधान्यात् तु निवृत्तिरेव साक्षात् प्राणातिपा. तादिभ्यो दर्शिता, तत्पूर्विका च प्रवृत्तिर्गम्यमाना। अन्यथा तु निवृत्तिर्निष्फलैव स्यादिति ।
विरतिशब्दस्यार्थ निरूपयति
भा०-विरति म ज्ञात्वाऽभ्युपेत्याकरणम् । अकरणं निवृत्तिरुपरमो विरतिरित्यनान्तरम् ॥ १॥
टी०-विरतिर्नामेत्यादिना । विरमणं विरतिः । नामशब्दो वाक्यालङ्कारार्थः । हिंसनं हिंसा-प्राणवियोजनम् । प्राणाश्चेन्द्रियादयस्तत्सम्बन्धात् प्राणिनः एकद्वित्रिचतुःपञ्चेन्द्रियाख्यास्तान् विज्ञानानुसारात् अभ्युपेत्य-श्रद्धाय प्रतिपद्य भावतोऽकरणं विरति । ज्ञानश्रद्धानपूर्वकं चारित्रमितियावत् । तदेव चाकरणं विवृणोति पर्यायः-अकरणं निवृत्तिरुपरमो विरतिरित्यनान्तरमिति । चरणस्यैते पर्यायाः । तत्राकरणमिति निवृत्तिप्रवृत्तिक्रियालक्षणं चारित्रं मनोवाकायकृतकारितानुमतिभेदोत्पन्नसप्तचत्वारिंशच्छतविकल्पभावनया परिहारानुष्ठाने, ऍवं निवृत्यादयोऽपि भावनीयाः, पर्यायशब्दैश्च व्याख्यानमसम्मोहाथ प्रदेशान्तरेष्विति॥१॥
तदेतदविशेषचोदितं पश्चतया विषयव्रताभिधानं विरत्याश्रयद्वयविवक्षावशेनासकलकुस्वभावादुभयथा वेदितव्यमित्याह
सूत्रम्-देशसर्वतोऽणुमहती ॥७-२ ॥ टी०-देशश्च सर्व च देशसर्वे ताभ्यां देशसर्वतः । विरामार्थापेक्षा पञ्चमी । अणु च महचाणुमहती । कथं पुनर्विरतिसामान्यमेकं सत् द्विधा मियते । विवक्षावशेन देशसर्वामिधानाच्चैकत्वादिविवक्षायामेकवचनादिवत् हिंसादिविरतिव्रतप्रस्तावाच यथाक्रममभिसम्बन्धः । देशसग्रहण विरत्या सहाभिसम्बध्यते । अणुमहद्रहणं व्रतेन । देशतो विरतिरणुव्रतं, सर्वतो विरतिर्महाव्रतम् । एतमेव सूत्रार्थ भाष्येण स्पष्टयति
१. कृत सप्त.' इति क-पाठः। २ 'निवर्तन्ते' इति ग-पाठः। ३ ' व्रतीमतीति ' इति क-पाठः । ४.एतभिवत्या' इति उ-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org