________________
सूत्र २] स्वोपक्षभाष्य-टीकालङ्कृतम्
४३ भा०---एभ्यो हिंसादिभ्य एकदेशविरतिरणुप्रतं, सर्वतो विरतिर्महाप्रतमिति ॥२॥
टी-एभ्य इत्यादिना । एभ्य इति प्रस्तुतानि परामृश्य हिंसादीनि सर्वतो व्यवच्छिदमाह-एकदेशविरतिरणुव्रत मिति । सकलपाणिगणविषया हिंसा, तस्याश्च विरतिर्न सर्वस्याः, किन्तु एकदेश इति एकदेशग्रहणेनैव स्पष्टयति-न सर्वस्मात् प्राणिव्यपरोपणाद् विरतिः, किन्तु एकदेशात् , स्थूलादित्यर्थः । स्थूलसूक्ष्मप्राणिभेदात् सङ्कल्पजारम्भमेदाद् वा । स्थूलान्मृषावादादिति कूटसाक्ष्यदानादि स्थूलः, मर्मादिप्रयोगतः सूक्ष्मः । स्थूलाददत्तादानादिति हठहरणादि स्थूलं यत्रैहिकामुष्मिकाचौर्यदोषा गृहिणाम् , सूक्ष्मं परिहासतः परकीयपरि(?)लघुणकाष्ठादिग्रहणं वा । स्थूलान्मैथुनाद् विरमति स्थूलत्वमेकदेशजनितमत्र प्रतीयते स्वदा. रसन्तोषः परदारनिवृत्तिर्वा । स्वदारसन्तुष्टः शेषयोषितो मातृवदनुपश्यति, परदाराभिगमनाभिपत्तः पेरपरिगृहीतयोषितः परिहरति, अपरिगृहीतवेश्यामभिगच्छति । तथा इच्छापरिमाणादन्यतो विरमामीति । केचिन्महावतानुपीवात् स्वल्पवतत्वादणुव्रतमिति व्याचक्षते ॥
सम्प्रति महावतव्याचिख्यासयाऽऽह-सर्वतो विरतिर्महाबतमिति। सर्वत इति । सर्वस्मात् सूक्ष्मात् स्थूलाच प्राणव्यपरोपणाद् विरमामीत्यादि । एवं शेषाण्यपि सर्वतो वाच्यानि । महाविषयत्वान्महाव्रतमित्येतानि पञ्च महाव्रतानि भवन्ति सम्यक्त्वयुक्तानि मूलवाच्यानि ॥ ननु च यथैव मृषादिनिवृत्तिरहिंसाव्रतपालनार्थत्वान्मूलगुणाः, एवं निशीथभोजनविरतिरपि मूलगुणः स्यात् । उच्यते-अहिंसाव्रतपरिपालनार्थत्वादिति समितिभिरनै कान्तः, अपि च महाव्रतधारिण एव तन्मूलगुणः तद्विरहितस्य यस्मान्मूलगुणा एवापरिपूर्णाः स्युः, अतो मूलगुणग्रहणे तद्ब्रहणमाक्षिप्तम् । यथाच सर्वव्रतोपकारि रात्रिभोजनं न तथोपवासादि, अतस्तन्मूलगुणो महावतिनः, शेषमुत्तरगुणः । अणुव्रतधारिणस्तूत्तरगुणो निशाभोजनविरतिराहारत्यागादुपवासवत् तप एव वा तदिति प्रतीतम् । कः पुनर्दोषो रात्रिभोजन इति चेत् एवं मन्यते-उद्गमादिदोषरहितस्य वासरपरिगृहीतस्याभ्यवहारेणान्धसो नक्तं न किल दोष इति ।
- एतदयुक्तम् । कालातिकान्तस्य प्रतिषिद्धत्वात्, गृहीतस्यानीतालोचितक्षनिष णविश्रान्तिसमनन्तरमेव च भुजेरभ्यनुज्ञानात्, निशाहिण्डने चेयोपथविशु.
ढेरसम्भवात् , दायकगमनागमनसस्नेहपाणिभाजनाद्यदर्शनात्, आलाकितपानभोजनासम्भवात् । ज्योत्स्नागणिप्रदीपप्रकाशसाध्यमालोकनमिति चेत् तदप्यसत, अमिसमारम्भनिषेधात, रत्नपरिग्रहाभावात्, ज्योत्स्नायाः कादाचिकत्वात्, आगमे तमिपिद्धत्वात्, हिंसादिवदनासेवनीयमेव विभावरीभक्तमिति ॥२॥
रात्रिभोजन
१:परिमहयोषितः' इति ग-पाठः । २' •पालमा ' इति पाठः।।'मित्याह ' इति ग-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org