________________
सूत्रे ४०-४१ ]
स्वोपज्ञभाष्य-टीकालङ्कृतम्
___
तस्य हि तस्मिन् समये, केवलमुत्पद्यते गततमस्कम् । ज्ञानं च दर्शनं चा-वरणद्वयसङ्क्षयाच्छुद्धम् ॥ १२ ॥ चित्र चित्रपटनिभं त्रिकालसहितं ततः सलोकमिमम् । पश्यति युगपत् सर्व, सालोकं सर्वभावज्ञम् ॥ १३ ॥ वीर्यं निरन्तरायं, भवत्यनन्तं तथैव तस्य तदा । कल्पातीतस्य महा-त्मनोऽन्तरायक्षयः कात् ॥ १४ ॥,, स ततो वेदयमानो, विहरति चत्वारि शेषकर्माणि । आयुष्यस्य समाप्ति-र्यावत् स्याद् वेद्यमानस्य ॥ १५ ॥ -
आर्या
19
11
भाष्यकारस्तु पूर्वविद इति सूत्रावयवं पृथग् विवृणोति सम्बन्धयति । एवमेते शुक्लध्याने पूर्वविदो भवतः ॥ ३९ ॥
Jain Education International
२७५
सूत्रम् - पूर्वविदः ॥ ९-४०॥
भा० - आधे शुक्ले ध्याने पृथक्त्ववितर्कैकत्ववितर्फे पूर्वविदो भवतः ॥४०॥ टी० - पूर्वविदो य उपशान्त क्षीणकषायौ तयोर्भवतः । सूत्रान्तरमिव व्याचष्टे, न तु परमार्थतः पृथक् सूत्रम् । पूर्वं प्रणयनात् पूर्वाणि चतुर्दश तद्विदः पूर्वविदस्ते भवन्ति नैकादशाङ्गविदः । एवमाद्यशुक्लध्यानद्वयस्य स्वामिनियमनं विहितम् ॥ ४० ॥
अथ पञ्चाच्छुक्लध्यानद्वयस्य कः स्वामीति तन्निर्दिदिक्षयोवाच
सूत्रम् — परे केवलिनः ॥ ९-४१ ॥
भा०- परे हे शुक्ले ध्याने केवलिन एव भवतः, न छद्मस्थस्य ॥ ४१ ॥ अन्तिम शुक्लध्यानअत्राह — उक्तं भवता पूर्वे शुक्ले ध्याने परे शुक्ले ध्याने द्वयस्य स्वामिनः इति । तत् कानि तानीति ? अत्रोच्यते
For Personal & Private Use Only
टी० परं च परं च परे सूत्रसन्निवेशमाश्रित्य सूक्ष्मक्रियमप्रतिपाति व्युपरतक्रिय चानिवर्ति ग्रहीतव्यं, ते च केवलिन एव त्रयोदशचतुर्दशगुणस्थानक्रमेणैव भवतः । छद्मस्थस्य नैते जातुचिद् भवत इति तत्र सूक्ष्मक्रियमप्रतिपातीति । सूक्ष्मा क्रिया यत्र तत् सूक्ष्मक्रियम् । तच्च योगनिरोधका भवति । वेद्य- नाम - गोत्रकर्मणां भवधारणायुष्कादधिकानां समुद्धात सामर्थ्यादचिन्त्यैश्वर्यशक्ति योगाद । युष्कसमीकृतानां मनो वा काययोगपरिणतस्यौदा रिकशरीरत्रिभागोनस्थस्य केवलिनः संज्ञिपञ्चेन्द्रियपर्याप्त कमनोऽसङ्ख्येयगुणकहीनं सूक्ष्मयोगित्वमप्रतिपात्यच्युतस्वभावमा व्युपरत क्रियानिवृत्तिध्यानावाप्तेः । उक्तं च
१ ' भावज्ञः' इति ङ-पाठः । २ ' शुभध्याने ' इति ग-पाठः ।
www.jainelibrary.org