________________
२७४ तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ९ एव योगत्रयाणामन्यतमस्तथा अर्थो व्यञ्जनं चैकमेव पर्यायान्तरानर्पितमेकपर्यायचिन्तनमुत्पादव्ययध्रौव्यादिपर्यायाणामेकस्मिन् पर्याये निवातशरणप्रतिष्ठितप्रदीपवन्निष्प्रकम्पं, पूर्वगतश्रुतानुसारि चेतो निर्विचारमर्थव्यञ्जनयोगान्तरेषु तदेकत्ववितर्कमविचारम् । आह च
"क्षीणकषायस्थानं, तत् प्राप्य ततो विशुद्धलेश्यः सन् । एकत्ववितर्कावीचारं ध्यानं ततोऽध्येति ॥१॥- आर्या एकार्थाश्रयमिष्टं, योगेन च केनचित् तदेकेन । ध्यानं समाप्यते यत्, कालोऽल्पोऽन्तर्मुहूर्तश्च ॥ २॥- " श्रुतमुच्यते वितर्कः, पूर्वाभिहितार्थनिश्चितमतेश्च । ध्यानं तदिष्यते ये-न तेन सवितर्कमिष्टं तत् ॥ ३॥अर्थव्यञ्जनयोगा-नां सङ्क्रान्तिरुदितो हि 'विचारः। तदभावात् तद् ध्यानं, प्रोक्तमविचारमर्हद्भिः ॥ ४ ॥व्युत्सर्गविवेकात् सं-मोहाव्ययलिङ्गमिष्यते शुक्लम् । न च सम्भवन्ति कात्स्न्यै न तानि लिङ्गानि मोहवतः ॥५॥-, व्युत्सर्गः सङ्गत्यागः देहोपधीनां विवेकः । प्रीत्यप्रीतिविरहितं, ध्यायंस्तदुपेक्षकः प्रसन्नं सः ॥ ६॥- " प्राप्नोति परं हादं, हिमातपाभ्यामिव विमुक्तम् ।। तेन ध्यानेन यथा-ख्यातेन च संयमेन घातयति ॥७॥शेषाणि घातिकर्मा-णि युगपदपरञ्जनानि ततः । कात्यान्मस्तकशूच्यां, यथा हतायां हतो भवति तालः॥कर्माणि क्षीयन्ते, तथैव मोहे हते कात्स्यात् ॥ ८॥- , निद्राप्रचले द्विचरम-समये तस्य क्षयं समुपयातः। चरमान्ते क्षीयन्ते, शेपाणि तु घातिकमोणि ॥ ९॥-- आवरणचरमसमये, तस्य दयाभावितात्मनो भवति । जीवैस्ततं जगत् प-श्यतो हि भावंक्षयोपशमः ॥ १० ॥-- , शटितप्रायं हि तदा-ऽऽवरणं परमावधिश्च भवति तदा । अथ कात्स्यात् तत्पतनाद् द्वितीयसमये क्षयायैति ॥ ११ ॥-,
१'निवातव्यशरणमप्रति ' इति छ-पाठः । २ 'योग्यन्तरेषु इति ङ-पाठः। ३'मुहूर्तः सः' इति - पाठः। ४'वीचारः' इति ङ-पाठः। ५ यद्यपि इयं पङ्क्तिः सर्वासु प्रतिषु समस्ति तथापि अशुद्धव सा प्रतिभाति । 'चिमुक्तः' इति हु-पाठः। 'समुपघातः' इति च-पाठः । 'क्षयात्राम' इति छ-पाठ।। ९'समयोपक्षयायैति' इति च-पाठः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org