________________
सूत्रं ३९ ]
स्वोपज्ञभाप्य–टीकालङ्कृतम्
क्षपयति तेन ध्यानेन ततोऽनन्तानुबन्धिनश्चतुरः । मिथ्यात्वं संमिश्र, सम्यक्त्वं च क्रमेण ततः ॥ ११ ॥ - आर्या क्षीयन्ते हि कषायाः, प्रथमास्त्रिविधोऽपि दृष्टिमोहश्च । देशयतायतसम्यग् -- दृगप्रमत्तप्रमत्तेषु ।। १२ ।। "
एवं पूर्वोक्तेन क्रमेण क्षपयन् कर्मप्रकृतीरुपशान्तकेपायस्थनप्राप्त उपशान्तकषायः क्षीणकषायश्च भवतीति ॥ ३८ ॥
सूत्रम् शुक्ले चाद्ये ॥ ९-३९ ॥
उपशान्तक्षीणकषाययोश्चेत्युक्तमविशेषेण धर्मध्यानं, ततश्चैकादशाङ्गविदो द्रष्टव्यम् । एवमवस्थिते किं धर्ममेव ध्यानं तयोः ९ नेत्युच्यते । किञ्चान्यदिति सम्बध्नाति । न केवलमेतयोर्धर्म्य, शुक्लं च ध्यानमुपशान्तक्षीणकपाययोर्भवति । किं चतुर्विधमपि पृथक्त्ववितर्क एकत्वसविचारं सूक्ष्मक्रियमप्रतिपाति व्युपरत क्रियमनिवर्तीति ? । उच्यते- न खलु चतुष्प्रकारमपि तयोः शुक्लध्यानं भवति, किं तर्हि ?
99
Bad
Jain Education International
२७३
भा०- - शुक्ले चाये ध्याने पृथक्त्ववित कैकत्ववितर्के चोपशान्तक्षीणकषाययो भवतः ॥ ३९ ॥
टी० - शुक्ले चाद्ये चे(ह? ) ति । शुक्ले ध्याने उपशान्तक्षीणकषाययो भवतः । के पुनस्ते ? पृथक्त्वैकत्ववितर्के। स्वरूपतः कीदृशे ? । उच्यते - पृथग् - अयुतकं भेदः तद्भावः पृथक्त्वम् - अनेकत्वं तेन सह गतो वितर्कः, पृथक्त्वमेव वा वितर्कः सहगतं वितर्कपुरोगं पृथक्त्ववितर्कम् । तच्च परमाणुजीवादावेकद्रव्ये उत्पादव्ययधौव्यादिपर्यायानेकतयाऽपि तत्त्वं तत् पृथक्त्वं पृथक्त्वेन पृथक्त्वे वा तस्य चिन्तनं वितर्कसहचरितं सविचारं च येत् तत् पृथक्त्व - वितर्क सविचारं तच्च पृथक्त्वमर्थव्यञ्जनयोगानां वक्ष्यति - " त्र्येककाययोगायोगानां ", “ वितर्कः श्रुतं ", " विचारोऽर्थव्यञ्जनयोगसङ्क्रान्तिः " ( अ० ९, सू० ४३, ४६, ४७ ) । पूर्वगतभङ्गिकश्रुतानुसारेणार्थव्यञ्जनयोगान्तरप्राप्तिः - गमनं विचारः । अर्थाद् व्यञ्जनसङ्क्रान्ति:, व्यञ्जनादर्थसङ्क्रान्तिः, मनोयोगात् काययोगसङ्क्रान्तिर्वाग्योगसङ्क्रान्तिर्वा । एवं काययोगान्मनोयोगं वाग्योगं वा सङ्क्रामति । तथा वाग्योगान्मनोयोगं काययोगं वेति । यत्र सङ्क्रामति तत्रैव निरोधो ध्यानमिति । एकस्य भाव एकत्वं, एकत्वगतो वितर्क एकत्ववितर्कः । एक
1
१ ' कषायस्थः क्षीणकषायः क्षीण. ' इति छ-पाठः । > २ ' स्थानप्राप्त उपशमकषायः ३ ' तर्क सवि०' इति ङ-पाठः । ४ ' उप ' इति ग-पाठः । ५ ' यत्र' इति च पाठः ।
३५
For Personal & Private Use Only
इति च पाठः ।
www.jainelibrary.org