________________
२७२
तत्त्वार्थाधिगमसूत्रम्
[अध्यायः "कालः समाधिर्ध्यानस्य, कायावस्था जितासनम् ।
शुचिनिष्कण्टको देश-स्ते च स्त्री-पशु-पण्डकाः ॥ १॥" आलम्बनान्यपि वाचना-प्रच्छना-परिवर्तन-चिन्तनानि सद्धर्मावश्यकादीनि च सामायिकादीनि । एमिरालम्बनधर्मध्यानं समारोहति ध्यानप्रतिपत्तिक्रमश्च मनोयोगनिग्रहादिः। भवकाले केवलिनः शेषस्य ध्यातुर्यथो समाध्यपेक्षमिति । लेश्यास्तु पीत-पम-शुक्लाख्यास्तीव-मन्दादिमेदाः। निसर्गा-ऽधिगमाभ्यामशेषजीवादिपदार्थश्रद्धानं जिनसाधुगुणोत्कीर्तनं प्रशंसा-विनय-दानानि च धर्मध्यानलिङ्गम् ।
"तस्मादथाप्रमत्त-स्थानात् स विशोधिमुत्तमं प्राप्य । स्थानान्तराण्यनेका-न्यारोहति पूर्वविधिनैवः॥ १॥-आर्या देशे ततो विविक्ते, समे शुचौ जन्तुविरहिते कल्पे । ऋज्वायम्य स देह, बद्ध्वा पल्यङ्कमचलाङ्गः ॥२॥-, वीरासनादि चासन-मथ समपादादि वाचलं स्थानम्। यद् वाधिष्ठाय यतिः, शयनं चोत्तानशयनादि ॥३॥-, ज्ञेयमखिलं. विविदिष-अधितिष्ठासंश्च मोक्षविधिमखिलम् । सन्धाय स्मृतिमात्मनि, किश्चिदुपावर्त्य दृष्टिं स्वाम् ॥४॥-, विषयेभ्य इन्द्रियाणि, प्रत्यवहत्य च मनस्तथा तेभ्यः । धारयति मनः स्वात्मनि, योग प्रणिधाय मोक्षाय ॥५॥-, ध्यानं ततः सधर्म्य, भिक्षुर्विचिनोति मोहनाशाय । उत्तमसंहननबलः, क्षपकश्रेणीमुपयियासन् ॥ ६॥ तल्लक्षणान्युपशमा-जेवमार्दवलाघवानि दृष्टानि। उपदेशाज्ञामूत्रनि-सर्गास्तद्र्चय इष्यन्ते ॥७॥ -, तत्प्रश्नवाचनानु-प्रेक्षापरिवर्तनावलम्बनकः।। तदनुप्रेक्षाः संसा-रैक्यानित्याशरणचिन्ताः ॥ ८॥ - एकाग्रेण मनः स्वं, निरुध्य भावाजिनाज्ञया ग्राह्यान् ।। विचिनोति यथातत्त्वं, तथैव च शुभाशुभापायान् ॥९॥-" संस्थानानि च सर्व-द्रव्याणां कर्मफलविपाकाश्च । प्रवचनसम्भिनमति-विशुद्धलेश्याः प्रविचिनोति ॥ १०॥-,
'मनःसमाधि' इति च-पाठः। २ पेक्षमेति' इति च-पाठः। स्तम'इतिच-पाठः। ५'द्रचय' इति च-पाठः। .
३ तदापि' इति च-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org